SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम द्वितीयः प्रकाशः। ॥७१॥ प्राणी प्राणितलोभेन यो राज्यमपि मुञ्चति । तद्वधोत्थमघं सर्वोर्वीदानेऽपि न शाम्यति॥२२॥ प्राणी जन्तुः प्राणितं जीवितव्यं तस्य लोभेन राज्यमपि तत्कालोपस्थितं परिहरति । यदाहमार्यमाणस्य हेमाद्रिं राज्यं वाथ प्रयच्छतु । तदनिष्टं परित्यज्य जीवो जीवितुमिच्छति ॥१॥ तत्तथाविधप्राणितप्रियप्राणिवधसम्भवं पापं सकलपृथ्वीदानेनापि न शाम्यति । भूदानं हि सकलदानेभ्योऽभ्यधिकमिति श्रुतिः ॥ २२॥ अथ श्लोकचतुष्टयेन हिंसाक निन्दामाहवने निरपराधानां वायुतोयतृणाशिनाम् । निनन् मृगाणां मांसार्थी विशिष्येत कथं शुनः ? ॥२३॥ समिति "निप्रेभ्यो नः"॥२॥२॥१५॥ इति कर्मत्वप्रतिषेधाच्छेषे षष्ठी । वने वनवासिनां न त परस्वीकृतभूमिवासिनां । तथाविधा अपि सापराधाः स्युरित्याह-निरपराधानां परधनहरणपरगृहभङ्गपरमारणाद्यपराधरहितानां । निरपराधत्वे हेतुमाह-वायुतोयवृणाशिनाम् , न हि वायुतोयतृणानि परधनानि येन तद्भक्षणात्सापराधत्वं स्यात् । मांसार्थीति अत्रापि मृगाणामिति सम्बध्यते । मृगाणां यन्मांसं तदर्थयते, मृगग्रहणेनाटविकाः प्राणिनो गृह्यन्ते । एवंविधमृगमांसार्थी मृगवधपरायणो निरपराधमानुषपिचण्डिकामांसलुब्धाच्छुनः कथं विशिष्येत श्ववेत्यर्थः ॥ २३॥ दीर्यमाणः कुशेनापि यः स्वाङ्गे हन्त दूयते। निर्मन्तून् स कथं जन्तूनन्तयेन्निशितायुधैः॥२४॥ ॥ ७ ॥ in Education Internat For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy