________________
यथात्मनि दुःखसाधनमप्रियं तथा सर्वभूतेष्वपि । एवं चिन्तयन् दुःखसाधनत्वादप्रियां परस्य हिंसां न कुर्वीत । सुखग्रहणं दृष्टान्तार्थम् । यथा सुखसाधनं प्रियमेवं दुःखसाधनमप्रियम् । तथा सर्वभूतेष्वपि दुःखसाधनमप्रियमित्यर्थः। यदाहुलौकिका अपि
श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् । आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥ १ ॥ इति ॥ २० ॥
ननु प्रतिषिद्धाचरणे दोपः, प्रतिषिद्धा च त्रसजीवविषया हिंसा. स्थावरेष त्वप्रतिषिद्धहिंसेषु यथेष्टं चेष्टन्तां - गृहस्था इत्याहनिरर्थिकां न कुर्वीत जीवेषु स्थावरेष्वपि । हिंसामहिंसाधर्मज्ञः काङ्क्षन्मोक्षमुपासकः ॥२१॥ ___स्थावराः पृथिव्यम्बुतेजोवायुवनस्पतयस्तेष्वपि जीवेषु हिंसां न कुर्वीत । किंविशिष्टां ? निरर्थिको प्रयोजन
रहिता, शरीरकुटुम्बनिर्वाहनिमित्तं हि स्थावरेषु हिंसा न प्रतिषिद्धा, या त्वर्थिका शरीरकुटुम्बादिप्रयोजनरहिता * तादृशीं हिंसां न कुर्वीत उपासका श्रावकः । किविशिष्टः? अहिंसाधर्मज्ञः अहिंसालक्षणं धर्म जानातीति अहिंसा
धर्मज्ञः। न हि प्रतिषिद्धवस्तुविषयैवाहिंसा धर्मः किन्त्वप्रतिषिद्धेष्वपि सा यतनारूपा । ततश्च तथाविधं धर्म जानन् का स्थावरेष्वपि निरर्थिकां हिंसां न विदधीत । ननु प्रतिषिद्धविषयैवाहिंसास्तु किमनया सूक्ष्मक्षिकया ? इत्याह-काङ्क्षन्मोतं, स हि मोक्षाकाङ्की यतिवत् कथं निरर्थिकां हिंसामाचरेत ॥ २१ ॥
ननु निरन्तरहिंसापरोऽपि सर्वस्वं दक्षिणां दत्वा पापविशुद्धिं विदध्यात किमनेन हिंसापरिहारक्लेशेन ? इत्याह
in Education International
For Personal & Private Use Only
www.jainelibrary.org