SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ पूज्यन्ते ग्रहीतुं भावतो यतिः । गच्छथम्पापुरीं ताभ्यां देवाभ्यां ददृशे पथि ॥ ६ ॥ परीक्षाकाङ्क्षया ताभ्यां पानाने ढौकिते नृपः । तृषितः क्षुधितोऽप्यज्झद्वीराः सत्त्वाञ्चलन्ति न ॥ १० ॥ क्रकचैरिव चक्राते क्रूरैः कर्करकण्टकैः । पीडां देवौ नृदेवस्य मृदुनोः पादपद्मयोः ॥ ११ ॥ पादाभ्यां प्रचरद्रक्तधाराभ्यां तादृशेऽध्वनि । तूलिकातलसञ्चारं संचेरे च तथापि सः ॥ १२ ॥ दिर्ममे गीतनृत्यादि ताम्यां चोमाय भूपतेः । तन्मोघमभवत्तत्र दिव्यास्त्रमिव गोत्रजे ।। १३ ।। तौ सिद्धपुत्ररूपेण पुरोभूयेदमूचतुः । तवाद्यापि महाभाग महदायुर्युवासि च ॥ १४ ॥ स्वच्छन्दं भुंक्ष्व तद्भोगान् का वीर्यद्यौवने तपः । निशीथकृत्यं कः प्रातः कुर्यादुद्योगवानपि ।। १५ यौवने तदतिक्रान्ते देहदौर्बन्यकारणम् । गृह्णीयास्त्वं तपस्तात द्वितीयमिव वार्द्धकम् ।। १६ ।। राजोचे यदि बह्वायुर्वहुपुण्यं भविष्यति । जलमानेन नलिनीनालं हि परिवर्द्धते ॥ १७ ॥ लोलेन्द्रिये यौवने हि यत्तपस्तत्तपो ननु । दारुणास्त्रे रणे यो' हि शूरः शूरः स उच्यते ॥ १८ ॥ तस्मिन्नचलिते सच्चात्साधु साध्विति वादिनौ । तौ तौ तापसोत्कृष्टं जमदग्निं परीचितुम् ॥ १६ ॥ न्यग्रोधमिव विस्तारिजटासंस्पृष्टभूतलम् । वन्मीकाकीर्णपादान्तं दान्तं तौ तमपश्यताम् ।। २० ।। तस्य श्मश्रुलताजाले नीडं निर्माय मायया । तदैव देवौ चटकमिथुनीभूय तस्थतुः ।। २१ ।। चटकश्चटकामूचे यास्यामि हिमवगिरौ । अन्यासक्तो नैष्यसि त्वमिति तं नान्वमंस्त सा ॥ २२ ॥ गोघातपातकेनाहं गृह्ये नायामि चेत्प्रिये । इत्युक्तशपथं भूयश्रटकं चटकाऽब्रवीत् || २३ || ऋषेरस्यैनसा गृह्ये शपेथा इति चेत्प्रिय । विसृजामि तदैव त्वां पन्थानः सन्तु ते शिवाः ॥ २४ ॥ इत्याकर्ण्य वचः क्रुद्धो जमदग्निम्मुनिस्ततः । उभाभ्यामपि हस्ताभ्यामुभौ जग्राह पचिणौ ॥ २५ ॥ श्राचचचे ततो हन्त कुर्वाणे दुष्करं १३ Jain Education Shal For Personal & Private Use Only 8-10-08+0.08+ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy