SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ तथाहिपासाइमा पडिमा लक्खणजुत्ता समत्तलकरणा। जह पन्हाएइ मणं तह निजरमो विमाणाहि ॥१॥ तथा निर्मितस्य जिनबिम्बस्य शास्त्रोक्तविधिना प्रतिष्ठापनम् , अष्टाभिश्च प्रकारैरभ्यर्चनं, यात्राविधानं, विशिटाभरणभूषणं, विचित्रवस्त्रैः परिधापनमिति जिनविम्बे धनवपनम् । यदाह गन्धैर्मान्यविनिर्यबहलपरिमलैरक्षतेधूपदीपैः, सानाज्यैः प्राज्यभेदैश्चरुभिरुपहतैः पाकप्रतैः फलैश्च । अम्भःसंम्पूर्णपात्रेरिति हि जिनपतेरर्चनामष्टभेदां, कुर्वाणा वेश्मभाजः परमपदसुखस्तोममारालभन्ते ॥१॥ ननु जिनबिम्बानां पूजादिकरणे न कश्चिदुपयोगः, न हि पूजादिभिस्तानि तृप्यन्ति तुष्यन्ति वा, न चावृप्ततुष्टाभ्यो देवताभ्यः फलमाप्यते । नैवम, चिन्तामण्यादिभ्य इवाप्ततुष्टेभ्योऽपि फलप्राप्त्यविरोधात् । यदुक्तं वीतरागस्तोत्रेडस्माभिः अप्रसन्नात् कथं प्राप्यं फलमेतदसङ्गतम् । चिन्तामण्यादयः किं न फलन्त्यपि विचेतनाः॥१॥ तथाउवगाराभावम्मि वि पुजाणं पूयगस्स उवगारो । मन्ताइसरणजलणादिसेवणे जह तहेहं पि ॥१॥ एष तावत् स्वकारितानां बिम्बानां पूजादिविधिरुक्तः, अन्यकारितानामपि । अकारितानां च शाश्वतप्रतिमानां (१) प्रासादिता प्रतिमा लक्षणयुक्ता समस्तालङ्करणा । यथा प्रलादयति मनस्तथा निर्जीर्यामो विजानीहि ॥ (१) उपकाराभावेऽपि पूज्यानां पूजकस्योपकारः । मन्त्रादिस्मरणज्वलनादिसेवने यथा तथेहापि ॥१॥ in Education Internatio.. " For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy