SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् . तृतीया प्रकाशः। ॥२०४॥ संविभANस्तु कारण व्याजे लक्ष्येऽपि । तिनात व्यपदेशो व्याजोन्यापदेश द्ददाति अत्र परोन्नतिवैमनस्यं मात्सर्य्यम् , यदुक्तमस्माभिरेवाऽनेकार्थसंग्रहे-मत्सरः परसम्पत्त्यक्षमायां तद्वति क्रुधि । इति चतुर्थः । तथा अन्यस्य परस्य सम्बन्धीदं गुडखण्डादीति व्यपदेशो व्याजोऽन्यापदेशः, यदनेकार्थसंग्रहे-अपदेशस्तु कारणे व्याजे लक्ष्येऽपि । इति पञ्चमः। एते पञ्चातिचारास्तुर्यशिक्षाव्रते अतिथिसंविभागनाम्नि स्मृताः। अतिचारभावना पुनरियम्-यदा अनाभोगादिना अतिचरन्ति तदा अतिचाराः, अन्यथा तु भङ्गाः इत्यवसितानि सम्यक्त्वमूलानि द्वादश व्रतानि, तदतिचाराश्चाभिहिताः ॥ ११ ॥ इदानीमुक्तशेष निर्दिशन् श्रावकस्य महाश्रावकत्वमाहएवं व्रतस्थितो भक्त्या सप्तक्षेत्र्यां धनं वपन् । दयया चातिदीनेषु महाश्रावक उच्यते॥१२०॥ एवं पूर्वोक्तप्रकारेण सम्यक्त्वमूलेष्वविचारविशुद्धेषु द्वादशसु व्रतेषु स्थितो निश्चलचित्तत्वेन निलीना, सप्तानां क्षेत्राणां समाहारः सप्तक्षेत्री जैनबिम्बभवनागमसाधुसाध्वीश्रावकश्राविकालक्षणा तस्यां, न्यायोपात्तं धनं वपन् निक्षिपन : चेत्रे हि बीजस्य वपनमुचितमित्युक्तं वपनिति, वपनमपि क्षेत्रे उचितं नाक्षेत्रे इति सप्तक्षेत्र्यामित्युक्तम् । क्षेत्रत्वं च सप्तानां रूढमेव । वपनं च सप्तक्षेत्र्यां यथोचितस्य द्रव्यस्य भक्त्या श्रद्धया, तथाहि-जिनबिम्बस्य तावद्विशिष्टलक्षणलक्षितस्य प्रसादनीयस्य वजेन्द्रनीलाञ्जनचन्द्रकान्तसूर्यकान्तरिष्टाङ्ककर्केतनविद्रुमसुवर्णरूप्यचन्दनोपलमृदादिभिः सारद्रव्यर्विधापनम् । यदाह सन्मृत्तिकामलशिलातलरूप्यदारु–सौवर्णरत्नमणिचन्दनचारुबिम्बम् ।। कुर्वन्ति जैनमिह ये स्वधनानुरूपं, ते प्राप्नुवन्ति नृसुरेषु महासुखानि ॥१॥ ॥२०४॥ Lain Education inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy