SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ Hदुर्लभाः॥२८॥ यानर्थान् बहुभिर्यत्नैरिच्छेत्साधयितुं नरः। अयत्नसिद्धा एवैते कृते ह्याशानिमीलने॥२६॥ पुण्योदयोऽ स्ति चेव पुंसां व्यथैवाशापिशाचिका। अथ पुण्योदयो नास्ति व्यर्थैवाशापिशाचिका ॥३०॥ अधीती पण्डितःप्राज्ञः पापभीरुस्तपोधनः। स एव येन हित्वाऽऽशां नैराश्यमुररीकृतम् ॥३१॥ सुखं सन्तोषपीयूषजुषां यत् स्ववशात्मनाम् । तत्पराधीनवृत्तीनामसन्तोषवतां कुतः।। ३२॥ सन्तोषवर्मणि व्यर्था आशानाराचपतयः । ताः कथं प्रतिरोद्धव्या इति मा स्माकुलो भवः ॥ ३३ ॥ वाक्येनकेन तद्वच्मि यद्वाच्यं वाक्यकोटिभिः। आशापिशाची शान्ता च प्राप्तं च परमं पदम् ॥३४॥ तत्सन्त्यजाऽऽशावैवश्यं मितीकृतपरिग्रहः । भजस्व द्रव्यसाधुत्वं यतिधर्मानुरक्तधीः ॥३५।। मिथ्याग्भ्यो विशिष्यन्ते सम्यग्दर्शनिनो जनाः । तेभ्योऽपि देशविरता मितारम्भपरिग्रहाः ॥ ३६ ॥ यामन्यतीर्थिका यान्ति गति तीव्रतपोजुषः । उपासकाः सोमिलवत्तां विराद्धव्रता अपि ॥३७॥ मासे मासे हि ये बालाः कुशाग्रेणैव भुञ्जते । सन्तुष्टोपासकानां ते कलां नार्हन्ति षोडशीम् ॥ ३८॥ अप्यद्भुततपोनिष्ठस्तामलि: पूरणोऽपि वा । सुश्रावकोचितगतरतिहीनां गतिं ययौ ॥३६॥ आशापिशाचविवशं कुरु मा सचेतः, सन्तोषमुद्वह परिग्रहनिग्रहेण । श्रद्धा विधेहि यतिधर्मधुरीणताया-मन्तर्भवाष्टकमुपैषि यथाऽपवर्गम् ॥४०॥ ११५ ।।। इति परमाईतश्रीकुमारपालभूपालशुश्रूषिते आचार्यश्रीहेमचन्द्रविरचिते अध्यात्मोपनिषत्रानि सञ्जातपट्टबन्धे श्रीयोगशास्त्रे स्वोपझं द्विवीयप्रकाशविवरणम् । पूरणोऽपि वा । सुश्राव यतिधर्मधुरीणतायाचार्यश्रीहेमचन्द्रविरचिते (१)' भावसाधुत्वं' इति प्रत्यन्तरम् । in Education Inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy