SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ । इति वसुनृपतेरसत्यवाचः, फलमाकर्ण्य जिनोक्तिविद्धकर्णः । कथमप्युपरोधतोऽपि जन्पे-दनृतं प्राणितसंशयेऽपि नैव ॥ ७१ ॥६०॥ ॥ इति नारदपर्वतकथानकम् ॥ सद्भयो हितं सत्यमिति व्युत्पत्या अवितथमपि परपीडाकरं वचनमसत्यमेवाहितत्वादिति सत्यमपीदृशं न | भाषेतेत्याह न सत्यमपि भाषेत परपीडाकरं वचः। लोकेऽपि श्रूयते यस्मात् कौशिको नरकं गतः ॥६॥ ___सत्यमवितथं लोकरूढथा परमार्थतस्तु परंपीडाकरत्वादसत्यमेवेत्यर्थः, तन्न भाषेत; तद्भाषणानरकगमनश्रुतेः। अत्रार्थे लौकिकं दृष्टान्तमाह-लोकेऽपि समयान्तरेऽपि श्रूयते निशम्यते परपीडाकरसत्यभाषणेन कौशिको नरकं गत इति । कौशिकस्तु संप्रदायगम्यः स चायम् आसीत्सत्यधनः कोऽपि कौशिको नाम तापसः। अपास्य ग्रामसंवासमनुगङ्गमुवास सः ॥१॥ कन्दमूलफलाहारो निर्ममो निष्परिग्रहः । सत्यवादितया प्राप प्रसिद्धिं परमामसौ ॥२॥ मुषित्वा ग्राममन्येार्दस्यवस्तस्य पश्यतः । आश्रमं निकषा जग्मुर्वनं बिलमिवोरगाः ॥ ३॥ तेषामनुपदिनस्तु ग्राम्याः पप्रच्छुरेत्य तम् । सत्यवाद्यसि तहि तस्कराः कुत्र वव्रजुः ॥ ४॥ धर्मतत्त्वानभिज्ञोऽथ कथयामास कौशिकः। घने तरुनिकुञ्जस्मिन् दस्यवः प्राविशन्निति ॥ ५॥ तस्योपदेशात्सब्रह्य ग्रामीणाः शस्त्रपाणयः। वनं प्रविश्य निर्जघ्नुर्दस्यून् व्याधा ] Jan Education internation For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy