SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ 1411814-08-1996-19) Jain Education International वा कीडा रममनङ्गीडा । यद्वा श्रहाय्यैः काष्ठपुस्तकलमृत्तिकाचमादिभिर्घटितः प्रजनन स्वलिङ्गन कृतकृत्योऽपि योषितामबाच्यदेशं भूयो भूयः कुधानि केशाकर्षण प्रहारदानदन्तनखकदर्थनादिप्रकारच मोहनीयकर्मावेशान तथा क्रीडति यथा बलवान् रामः प्रसूयते । अथवा देहावयवो मैथुनापेया योनिर्मेहनं वातिरिक्तान्यङ्गानि कुचकक्षोरुवदनादीनि तेषु कीडा अनङ्गक्रीडा । इह च श्रावको त्यन्तपापभीरुतया च चिकीर्षुरपि यदा वेदोदयासहिष्णुता तद्विधातुं न शक्नोति तदा यापनामात्रार्थं स्वदारसन्तोपादि प्रतिपद्यते । मैथुनमात्रेणैव च यापनायां सम्भवन्त्यां मदनात्याग्रहानङ्गक्रीडे अर्थतः प्रतिषिद्धे । तत्सेवने न च कश्चिद्गुणः प्रत्युत तात्कालिकी छिद्रा राजयक्ष्मादयश्व रोगा दोषा एव भवन्ति । एवं प्रतिषिद्धाचरणाद्भङ्गां नियमाबाधनाच्चाभङ्ग इत्यतिचारावेतौ । अन्येत्वन्यथाऽतिचारद्वयमपि भावयन्ति - स हि स्वदारसन्तोषी मैथुनमेव मया प्रत्याख्यातमिति स्वकल्पनया वेश्यादौ तत् परिहरति, नालिङ्गनादि; परदारविवर्जaise परदारेषु मैथुनं परिहरति, नालिङ्गनादि; इति कथञ्चिदत सापेक्षत्वादतिचारौ । एवं स्वदारसन्तोषिणः पश्चातिचाराः परदारवर्जकस्य तूत्तरे त्रय एवेति स्थितम् । अन्ये त्वन्यथाऽतिचारान् विचारयन्ति यथा परदारवजिणो पञ्च हुन्ति तिष्ठ उ सदारसंतुट्टे । इत्थीउ तिथि पञ्च व भंगविगप्पेहि अइयारा ॥ १ ॥ इत्वरकालं या रे भाय्यादिना परिगृहीता वेश्या, तां गच्छतः परदारवर्जिनो भङ्गः, कथञ्चित् परदारत्वालोके तु परदारत्वारूढेर्न भङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । अपरिगृहीतायामनाथकुलाङ्गनायां या गतिः ( १ ) परदारवर्जिनः पञ्च भवन्ति त्रयस्तु स्वदारसन्तुष्टे । स्त्रियास्त्रयः पञ्च वा भङ्गविकल्पैरतिचाराः ॥ १ ॥ तस्या For Personal & Private Use Only 123 *4*10*-*-*-*-***• www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy