________________
योग
शास्त्रम् ॥ १६४ ॥
Jain Education Internat
परदारवर्जिनः सोऽप्यतिचारः; तत्कल्पनयाऽपरस्य भर्तुरभावेनापरदारत्वादभङ्गः, लोके च परदारतया रूढेर्भङ्ग इति पूर्ववदतिचारः । शेषास्तु त्रयो द्वयोरपि भवेयुः, स्त्रियास्तु स्वपुरुषसन्तोषपरपुरुषवर्जनयोर्न भेदः; स्वपुरुषव्यतिरेकेणाऽन्येषां परपुरुषत्वात् । अन्यविवाहनादयस्तु त्रयः खदारसन्तोषिण इव स्वपुरुषविषयाः स्युरिति पञ्च वा । कथम् ? आद्यस्तावद्यदा स्वकीयपतिर्वारकदिने सपत्न्या परिगृहीतो भवति, तदा सपत्नीवारकं विलुप्य तं परिभुखानाया अतिचारः, द्वितीयस्त्वतिक्रमादिना परपुरुषमभिसरन्त्या अतिचारः, ब्रह्मचारिणं वा स्वपतिमतिक्रमादिनाऽभिसरन्त्या अतिचारः । शेषास्त्रयः स्त्रियाः पूर्ववत् ॥ ६४ ॥
अथ पञ्चमव्रतस्याऽतिचारानाह
धनधान्यस्य कुप्यस्य गवादेः क्षेत्रवास्तुनः । हिरण्यहेम्नश्च संख्याऽतिक्रमोऽत्र परिग्रहे ॥६५॥ sex श्रावधर्मोचिते परिग्रहवते यः संख्याऽतिक्रमः सोऽतिचारः कस्य कस्येत्याह - घनं गणिमधरिममेयपरीक्ष्यलक्षणम् । यदाह
गणिमं जाईफलफोप्फलाइ धरिमं तु कुङ्कुमगुडाइ । मेज्जं चोप्पडलोयाइ रयणवत्थाइ परिच्छेजं ॥ १ ॥ धान्यं सप्तदशविधम् । यदाह
" व्रीहिर्यवो मसूरो गोधूममुद्गमाषतिलचणकाः । अणवः प्रियङ्गुकोद्रवमकुष्टकाः शालिराढक्यः ॥ १ ॥ ( १ ) गणिमा जातिफलपूगफलादि धरिमा तु कुङ्कुमगुडादि । मेयं प्रक्षणलवणादि रत्नवस्त्रादि परिछेद्यम् ॥
१ ॥
For Personal & Private Use Only
1-1-18/018+X+X.OK+*K
तृतीयः
प्रकाशः !
॥ १६४ ॥
www.jainelibrary.org