SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ****+UK+00 Jain Education International किञ्च कलायकुलत्थी सणस सदशानि धान्यानि । " वनं च धान्यं व धनधान्यं तस्य धनधान्यस्य । श्रोत समाहानिर्देशः परिग्रहस्य पञ्चविधत्वज्ञापनार्थः । तथा सति ह्यतिचारपञ्चकं योजं भवति । कुप्यं रूप्यसुवर्णव्यतिरिक्तं कांस्यलोहता मीत्रपुमृद्भाण्डत्वचि सारविकारोदङ्किकाष्ठमञ्चकमचि काम सूरकरथशकटहलप्रभृति द्रव्यं तस्य कुप्यस्य । गौरनड्वाननङ्घाही च स आदिस्य द्विपदचतुष्पदवर्गस्य स गवादिः । यादिशब्दान्महिमेपाऽविककर भरास मतुरगहस्त्यादिचतुष्पदानां हंममयूरकुर्कुटशुकसारिकापारापतचकोरादिपक्षिद्विपदानां पत्नी उपरुद्धादासीदासकर्मकरपदात्यादिमनुष्याणां च संग्रहः । क्षेत्रं सस्योत्पत्तिभूमिः, तत् त्रिविधं नेतुकेतुभय भेदात् । तत्र सेतुक्षेत्रं यदरघट्टादिजलेन सिच्यते, केतुक्षेत्रमाकाशोदकपातनिष्पाद्य सस्यम्; उभयमुभयजल निष्पायसम्यम् । वास्तु गृहादि ग्रामनगरादि च । तत्र गृहादि त्रिविधं; खातं भूमिगृहादि, उच्छ्रितं प्रासादादि, खातोच्छ्रितं भूमिगृहस्योपरि गृहादिनन्निवेशः। क्षेत्रं च वास्तु समाहारद्वन्द्वः । तथा हिरण्यं रजतं, घटितं अघटितं चानेकप्रकारं पात्र्यादि, एवं सुवर्णमपि, हिरण्यं च हेम चेत्य त्रापि समाहारः । संख्या व्रतकाले यावज्जीवं चतुर्मासादिकालावधि वा यत्परिमाणं गृहीतं तस्या अतिक्रम उल वनं संख्यातिक्रमोऽतिचारः ॥ ६५ ॥ चेति ननु प्रतिपन्नत्रतसंख्याऽतिक्रमो भङ्ग एव स्यात् कथमतिचारः ? इत्याहबन्धनाद्तो गर्भायोजनाद् दानतस्तथा । प्रतिपन्नत्रतस्यैष पञ्चधाऽपि न युज्यते ॥ ६६॥ न साक्षात् संख्याऽतिक्रमः किन्तु व्रतसापेक्षस्य बन्धनादिभिः पञ्चभिर्हेतुभिः स्वबुद्ध्या व्रतभङ्गमकुर्वत For Personal & Private Use Only **01*** www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy