SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥ ५२ ॥ Jain Education Intern यदि सत्सङ्गनिरतो भविष्यसि भविष्यसि । श्रथासज्जनगोष्ठीषु पतिष्यसि पतिष्यसि ॥ १ ॥ सङ्गः सर्वात्मना त्याज्यः स चेत्यक्तुं न शक्यते । स सद्भिः सह कर्त्तव्यः सन्तः सङ्गस्य भेषजम् ॥ २ ॥ ॥ इति च ॥ ८ ॥ तथा माता जननी पिता जनकस्तयोः पूजकस्त्रिसन्ध्यं प्रणामकरणेन परलोकहितानुष्ठाननियोजनेन सकलव्यापारेषु तदाज्ञया प्रवृत्त्या वर्णगन्धादिप्रधानस्य पुष्पफलादिषस्तुन उपढौकनेन तद्भोगे भोगेन चान्नादीनामन्यत्र तदनुचितादिति । माता च पिता च मातापितरौ " आ द्वन्द्वे " ।। ३ । २ । ३६ ॥ इत्यात्वं मातुश्चाभ्याहतत्वात्पूर्वनिपातः । यन्मनुः - उपाध्याया दशाचार्य श्राचार्याणां शतं पिता । सहस्रं तु पितुर्माता गौरवेणातिरिच्यते ॥ १ ॥ ६ ॥ तथा त्यजन् परिहरन् उपप्लुतं स्वचक्रपरचक्रविरोधाद्दुर्भिचमारीतिजनविरोधादे श्वास्वस्थीभूतं यत् स्थानं ग्रामनगरादि | अत्यज्यमाने हि तस्मिन् धर्म्मार्थकामानां पूर्वार्जितानां विनाशेन नवानां चानुपार्जनेनोभयलोकभ्रंश एव स्यात् ॥ १० ॥ तथा गर्हितं देशजातिकुलापेक्षया निन्दितं कर्म्म तत्राप्रवृत्तः । देशगर्हितं यथा - " सौवीरेषु कृषिकर्म्म । लाटेषु मद्यसन्धानम् । जात्यपेक्षया यथा— ब्राह्मणस्य सुरापानं तिललवणादिविक्रयश्च । कुलापेचया यथा - चौलुक्यानां मद्यपानम् गर्हितकर्म्मकारिणो हि शेषमपि धर्म्य कर्मोपहासाय भवति ॥ ११ ॥ १९- 9380..0K For Personal & Private Use Only KOK प्रथमः प्रकाशः । ॥ ५२ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy