SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte ----- वर्णवादाद्धि वित्तप्राणनाशनादिरपि दोषः स्यात् ॥ ६ ॥ तथा अनेकं बहु यन्निर्गमद्वारं उपलक्षणत्वात्तदेव च प्रवेशहारं तेन विवर्जितं निकेतनं यस्य स तथा । बहुषु हि निर्गमप्रवेशद्वारेष्वनुपलच्यमाणनिर्गमप्रवेशानां दुष्टलोकानामापाते स्त्रीद्रविणादिविप्लवः स्यात् । अत्र चानेकद्वारतायाः प्रतिषेधेन विधिराक्षिप्यते । ततः प्रतिनियतद्वारसुरक्षितगृहो गृहस्थः स्यादिति लभ्यते । तथाविधमपि निकेतनं स्थान एव निवेशयितुं युक्तं नास्थाने । स्थानं तु शन्यादिदोषरहितं बहुलदूर्वा प्रवालकुशस्तम्ब प्रशस्तवगन्धमृत्तिका सुस्वादुजलोद्गमनिधानादिमच्च । स्थानगुणदोषपरिज्ञानं च शकुन स्वप्नोपश्रुतिप्रभृतिनिमित्तादिबलेन । स्थानमेव विशिनष्टि- अतिव्यक्तमतिप्रकटमृतिगुप्तमतिप्रच्छन्नं तन्निषेधादनतिव्यक्तगुप्तम् । तत्र अतिव्यक्ते ह्यसनिहितगृहान्तरतया परिपार्श्वतो निरावरणतया चौरादयोऽभिभवेयुः । अतिगुप्ते च सर्वतो गृहान्तरैर्निरुद्धत्वान्न स्वशोभां लभते, प्रदीपनकाद्युपद्रवेषु च दुःखनिर्गमप्रवेशं गृहं भवति । पुनः कथंभूते स्थाने ? सुप्रातिवेश्मिके शोभनाः शीलादिसम्पन्नाः प्रातिवेश्मिका यत्र । कुशलप्रातिवेश्मिकत्वे हि तदालापश्रवणतच्चेष्टादर्शनादिवशात् स्वतः सगुणस्यापि गुणहानिः स्यात् । दुष्प्रातिवेश्मिकास्त्वेते शास्त्रप्रतिषिद्धाः - खरियातिरिक्खजोगीता लायरसमणमाहणसुसाया । वग्गुरिश्रवाह गुम्मियहरिएस पुलिंदमच्छंधा ॥ ९ ॥ ७ ॥ तथा कृतः सङ्गो येन स कृतसङ्गः सन् शोभन आचार इहपरलोकहिता प्रवृत्तिर्येषां ते सदाचारास्तैर्न तु कितवधूर्त्तविटभट्टभण्डनटादिभिस्तत्सङ्गे हि सदपि शीलं विलीयेत । यदाह १ स्वरिका ( दासी ) तिर्यग्योनितालाचरश्रमणब्राह्मणस्मशानाः । वागुरिकव्याधगौल्मिकहरिकेशपुलिन्द्रमत्स्यन्धाः ॥१॥ For Personal & Private Use Only R+K+000-3-**** www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy