SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रकाशः। योग चाप्रामाण्यात्परस्परानुरागण मिथः समवायागान्धर्वः ५। पणबन्धेन कन्याप्रदानमासुरः ६ । प्रसह्य कन्याग्रहणाजाखम न द्राक्षसः ७। सुप्तप्रमत्तकन्याग्रहणात्पैशाचः ८। एते चत्वारोऽप्यधाः । यदि वधूवरयोः परस्परं रुचिरस्ति | तदा अधD अपि धाः । शुद्धकलत्रलाभफलो विवाहः । अशुद्धभायोंदियोगेन नरक एव । तत्फलं वध॥५१॥ रक्षणमाचरतः सुजातसुतसन्ततिरनुपहता चित्तनिवृत्तिगृहकृत्यसुविहितत्वमाभिजात्याचारविशुद्धत्वं देवातिथिबान्ध वसत्कारानवद्यत्वं चेति । वधूरक्षणोपायास्त्वेते-गृहकर्मविनियोगः १ परिमितोऽर्थसंयोगो २ ऽस्वातन्त्र्यम् ३ सदा च मातृतुन्यस्त्रीलोकावरोधन ४ मिति ॥ ३॥ पापानि दृष्टादृष्टापायकारणानि कर्माणि तेभ्यो भीरुः । तत्र दृष्टापायकारणानि चौर्यपारदारिकत्वबूतरमणादीनि इहलोकेऽपि सकललोक प्रसिद्धविडस्वनास्थानानि । अदृष्टापायकारणानि मद्यमांससेवनादीनि शास्त्रनिरूपितनरकादियातनाफलानि ॥४॥ प्रसिद्धः तथाविधापरशिष्टसम्मततया दूरं रूढिमागतः। देशाचारो भोजनाच्छादनादिचित्रक्रियात्मकः सकलमण्डलव्यवहारस्तं सम्यगाचरन् , तदाचारातिलङ्घने हि तद्देशवासिजनतया विरोधसम्भावनादकल्याणलाभः स्यात् ।। अवोऽश्लाघा तं वदतीत्येवंशीलोऽवर्णवादी न कापि जघन्योत्तममध्यमभेदेषु जन्तुषु । परावर्णवादी हि बहुदोषः। यदाह-- परपरिभवपरिवादादात्मोत्कर्षाच्च बध्यते कर्म । नीचैर्गोत्रं प्रतिभवमनेकभवकोटिदुर्मोचम् ॥१॥ तदेवं सकलजनगोचरोऽप्यवर्मवादो न श्रेयान् । किं पुना राजामात्यपुरोहितादिषु बहुजनमान्येषु । राजाद्य ॥११॥ in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy