________________
पापेनैवार्थरागान्धः फलमानोति यत् कचित् । बडिशामिषवत्तत्तमविनाश्य न जीर्यति ॥ १॥ न्याय एव परमार्थतोऽर्थोपार्जनोपायोपनिषत् । यदाहनिपानमिव मण्डूकाः सरः पूर्णमिवाण्डजाः। शुभकर्माणमायान्ति विवशाः सर्वसम्पदः॥१॥ विभवत्त्वं च गार्हस्थ्ये प्रधानं कारणमित्यादौ न्यायसम्पन्नविभव इत्युक्तम् ॥१॥
तथा शिष्टाचारप्रशंसकः शिष्यन्ते स शिष्टा वृत्तस्थज्ञानवृद्धसेवोपलब्धविशद्धशिक्षाः पुरुषविशेषास्तेषामाचारश्चरितम् । यथा
लोकापवादभीरुत्वं दीनाभ्युद्धरणादरः । कृतज्ञता सुदाक्षिण्यं सदाचारः प्रकीर्जितः ॥१॥ इत्यादि ।
तस्य प्रशंसकः । यथाविपद्युच्चैः स्थेयं पदमनुविधेयं च महता, प्रिया न्याय्या वृत्तिर्मलिनमसुमङ्गेऽप्यसुकरम् ॥ असन्तो नाम्योः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ १॥२॥
तथा कुलं पितृपितामहादिपूर्वपुरुषवंशः, शीलं मद्यमांसनिशाभोजनादिपरिहाररूपः समाचारस्ताभ्यां समा- 2 स्तुल्याः समकुलशीला इत्यर्थः । गोत्रं नाम तथाविधैकपुरुषप्रभवो वंशस्तत्र जाता गोत्रजाः तेभ्योऽन्येऽन्यगोत्रजास्तैः सार्धं कृतोद्वाहो विहितविवाहः । अग्निदेवादिसाक्षिकं पाणिग्रहणं विवाहः । स च लोकेऽष्टविधः । तत्रालङ्कृत्य कन्यादानं ब्राह्मो विवाहः १ । विभवविनियोगेन कन्यादानं प्राजापत्यः २ । गोमिथुनदानपूर्वकमार्षः ३ । यत्र यज्ञार्थमृत्विजः कन्याप्रदानमेव दक्षिणा स दैवः ४। एते धा विवाहाश्चत्वारः । मातुः पितुर्वन्धूनां
www.jainelibrary.org
For Personal & Private Use Only
Jain Education Internatif