SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ Jain Education Inter चतसृणां गतीनां नारकतिर्यग्नरामरलच्च खानामन्तो यस्मात् तच्चतुरन्तं चक्रमिव चक्रं रौद्रमिध्यात्वादिभावशत्रुलवनाचेन वर्तन्ते इत्येवंशीला धर्मवरचतुरन्त चक्रवर्तिनः चाउरन्तेति समृद्ध्यादित्वादात्वमेवं धर्मदत्वादिभिः पश्चभिः स्तोतव्यसम्पदेव विशेषोपयोगसम्पदुक्ता । ६ । इदानीं सर्व पश्यतु वा मा वा तत्त्वमिष्टं तु पश्यतु । कीटसंख्यापरिज्ञानं तस्य नः कोपयुज्यते ? ॥ १ ॥ इति सर्वदर्शनप्रतिक्षेपेणेष्टतत्वदर्शनवादिनः सौगतान् प्रतिक्षिपति - श्रप्पडिहयवरनाम्यदंसणधराणं विउमाणं- अप्रतिहते सर्वत्राप्रतिस्खलिते वरे क्षायिकत्वात् प्रधाने ज्ञानदर्शने विशेषसामान्यावबोधरूपे धारयतीति अप्रतिहतवरज्ञानदर्शनधरास्तेम्यः, अप्रतिहतवरज्ञानदर्शनवरत्वं च निरावरणत्वेन सर्वज्ञानदर्शनस्वभावतया च, ज्ञानग्रहणं चादौ सर्वा लब्धयः साकारोपयोगोपयुक्तस्येति ज्ञापनार्थमिति । एते च कैश्चित्तत्रतः खन्वन्यावृचच्छद्यान एवेष्यन्ते यदाह ज्ञानिनो धर्मतीर्थस्य कर्तारः परमं पदम् । गत्वाऽऽगच्छन्ति भूयोऽपि भवं तीर्थनिकारतः ॥ १ ॥ तथा दग्धेन्धनः पुनरुपैति भवं प्रमध्य, निर्वाणमप्यनवधारितभीरुनिष्ठम् । मुक्तः स्वयं कृतभवश्च परार्थशूरस्त्वच्छासनप्रतिहतेष्विह मोहराज्म् ॥ १ ॥ इति । तन्निवृत्यर्थमाह – व्यावृत्तच्छद्यभ्यः, छादयतीति छब ज्ञानावरणादिघातिकर्म तद्बन्धयोग्यतालक्षणो भवाधिकारथ, व्यावृत्तं निवृत्तं छद्म येभ्यस्ते तथाविधाः, नाऽचीये संसारे अपवर्गः चीणे च जन्मपरिग्रह इत्यसत्, For Personal & Private Use Only **-*****CK-10K4081014+0 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy