SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ प्रेम प्रकाशः। ॥२२१॥ हेत्वभावात् । न च तीर्थनिकारजन्मपराभवो हेतुस्तेषां मोहाभावाद् मोहे वा अपवर्ग इति प्रलापमात्रमेवमप्रतिहतवरज्ञानदर्शनधरत्वेन व्यावृत्तच्छ बतया च स्तोतव्यसम्पद एव सकारणा स्वरूपसम्पन् । एते च कस्थिता विद्यावा दिभिः परमार्थतो जिनादय एवेष्यन्ते भ्रान्तिमात्रमसद्विद्येति वचनात् एतव्यपोहाय आह.जिणार्ग जावयागं, रागादिजेतृत्वाजिनाः, न च रागादीनामसत्त्वं प्रतिप्राण्यनुभवसिद्धत्वात् । न चानुभवोऽपि भ्रान्तः सुखदुःखा द्यनुभवेष्वपि भ्रान्तिप्रसङ्गात्, एवं च जेयसम्भवाजिनत्वमविरुद्धम् । एवं रागादीनेव सदुपदेशादिना जापयन्तीति जापकाः तेभ्यः, एतेऽपि कालकारणवादिभिरनन्तशिष्यैर्भावतोऽतीर्णादय एवेष्यन्ने काल एष कृत्स्नं जगदावर्तयति इति वचनात, एतन्निरासायाह-तिप्माणं तारयाणं-सम्यग्ज्ञानदर्शनचारित्रपोतेन भवार्णवं तीर्णवन्तः तीर्णा:. न चैषां तीर्णानां पारगतानामावतः सम्भवति तद्भावे मुक्त्यतिद्धेः, एवं च न मुक्तः पुनर्भये भवतीति तीर्णन्वसिद्धिः, एवं तारयन्ति अन्यानपीति तारकास्तेभ्यः, एतेऽपि परोक्षज्ञानवादिभिर्मीमांसकभेदैरबुद्धादय एवेप्यन्ते अप्रत्यक्षा हि नो बुद्धिः प्रत्यक्षोऽर्थः इति वचनात् एतन्यवच्छेदार्थमाह--बुद्धाणं बोहयाणं-अज्ञाननिद्राप्रसुप्ते जगत्यपरोपदेशेन जीवाजीवादिरूपं तत्त्वं स्वसंविदितेन ज्ञानेन बुद्धवन्तो बुद्धाः, न चास्वसंविदितेन ज्ञानेनार्थज्ञानं सम्भवति । न ह्यदृष्टप्रदीपो बाह्यमर्थ प्रत्यक्षीकरोति, न चेन्द्रियवदस्वसंविदितस्यापि ज्ञानस्यार्थप्रत्यक्षीकरणमिन्द्रियस्य भावेन्द्रियत्वात् तस्य च स्वसंविदितरूपत्वात् यदाह-" अप्रत्यक्षोपलम्भस्य नार्थदृष्टिः प्रसिद्ध्यति" एवं च सिद्धं बुद्धत्वमेवमपरानपि बोधयन्तीति बोधकास्तेभ्यः, एतेऽपि जगत्कर्तृलीनमुक्तवादिभिः सन्तपनविनेयैस्तत्त्वतोऽमुक्कादय एवेष्यन्ते, ब्रह्मवद् ब्रह्मसङ्गतानां स्थितिरिति वचनात् एतनिराचिकीर्षयाऽऽह नात् एतत्र्यवान बुद्धवन्तो बुद्धष्तस्यापि ज्ञानस्या ॥ २२१॥ in Education International For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy