SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ योग शास्रम् ॥२२६॥ Jain Education Inter ++***+9 पुष्कलं सम्पूर्णम्, न च तदल्पं किन्तु विशालं विस्तीर्णमेवम्भूतं सुखमावहति प्रापयतीति कल्याणपुष्कलविशालसुखावहः तस्य, तथा च श्रुतधर्मोक्तानुष्ठानादुक्तलक्षणमपवर्गसुखमवाप्यत एव, अनेन चाऽस्य विशिष्टार्थप्रापकत्वमाह । देवानां दानवानां नरेन्द्राणां च गणैरर्चितस्य पूजितस्य, सुरगणनरेन्द्रमहितस्य इति, अस्यैव निगमनं देवदानवेत्यादि । यतश्चैवमतः I सिद्धे भो ! पयओ नमो जिणमए नंदी सया संयमे, देवनाग सुवष्य किन्नर गणस्सन्भू प्रभावच्चिए । लोगो जत्थ पजिगमिणं तेलुकमच्चासुरं, धम्मो वड्डउ सासयं विजयओ धम्मुत्तरं वड्डउ ॥ ४ ॥ सिद्धः फलाव्यभिचारेण प्रतिष्ठितः, अथवा सिद्धः सकलनयव्यापकत्वेन त्रिकोटिपरिशुद्धत्वेन च प्रख्यातस्तस्मिन् भो इत्यतिशयिनामामन्त्रणम् पश्यन्तु भवन्तः, प्रयतोऽहं यथाशक्त्येतावन्तं कालं प्रकर्षेण यतः, इत्थं परसाक्षिकं प्रयतो भूत्वा पुनर्नमस्करोति, नमो जिणमए नमो जिनमताय, प्राकृतत्वाच्चतुर्थ्याः सप्तमी । अस्मिंश्च सति नन्दिः समृद्धिः, सदा सर्वकालम्, संयमे चारित्रे भूयात् । उक्तं च - ( १ ) ' पढमं नाणं तओ दया ' । किंविशिष्टे संयमे १, देवनाग सुपर्ण किन्नरगणैः सद्भूतभावेनार्चिते देवा विमानिनः, नागा धरणादयः, सुपर्णा गरुडाः, किन्नरा व्यन्तरविशेषाः, उपलक्षणं शेषाणां देवमित्यनुस्वारः छन्दः पूरणे, तथा च संयमवन्तोऽर्च्यन्त एव देवादिभिः । यत्र जिनमते, किं यत्र १ लोकनं लोको ज्ञानम्, प्रतिष्ठितः तद्वशीभूतः, तथा जगदिदं ज्ञेयतया प्रतिष्ठितमिति योगः; केचिन्मनुष्यलोकमेव जगन्मन्यन्ते, अत आह- त्रैलोक्यमर्त्यासुरमाधाराधेयरूपम् । श्रयमि(१) प्रथमं ज्ञानं ततो दया । For Personal & Private Use Only (*+*-+K+-+9+1K++**++K+UK+K तृतीय: प्रकाशः । ॥२२६॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy