SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ R+-+k+-+K+-0.08(K Jain Education Internation तमतिमिरपडलविद्धंसणस्स सुरगणनरिंदमहिश्रस्स | सीमाधरस्स वंदे पप्फोडियमोहजालस्स ॥ २ ॥ aisa देवरम्, अथवा बद्धस्पृष्टनिधत्तं ज्ञानावरणीयं कर्म तमः; निकाचितं तिमिरं, ततस्तमस्तिमिरस्य, तमस्तिमिरयोर्वा पटलं वृन्दम्, तद्विध्वंसयति विनाशयतीति नन्द्यादित्वादने तमस्तिमिरपटलविध्वंसनस्तस्य, अज्ञाननिरासेनैवास्य प्रवृत्तेः । सुरगणैश्चतुर्विधाऽमरनिकायैर्नरेन्द्रैश्चक्रवर्त्यादिभिर्महितः पूजितस्तस्य । आगममहिमां हि कुर्वन्त्येव सुरासुरादयः । सीमां मर्य्यादाम्, सीमायां वा धारयतीति सीमाधरस्तस्य श्रुतधर्म इति विशेष्यम्, ततः कर्मणि द्वितीया, तस्याश्च " कचिद् द्वितीयादेः " ।। ८ । ३ । १३४ ।। इति प्राकृतसूत्रात् षष्ठी, अतस्तं वन्दे, तस्य वा यन्माहात्म्यं तद्वन्दे इति सम्बन्धे षष्ठी अथवा तस्य वन्दे वन्दनं करोमीति । प्रकर्षेण स्फोटितं विदारितं मोहजालं मिथ्यात्वादिरूपं येन स तथा तस्य । श्रुतधर्मे हि सति विवेकिनो मोहजालं मिथ्यात्वादिरूपं विलयमुपयात्येव । इत्थं श्रुतमभिवन्द्य तस्यैव गुणोपदर्शनद्वारेणाप्रमाद गोचरतां प्रतिपादयन्नाह-जाईजरामरण सोगपणास णस्स कल्लाणपुक्खलविसालसुद्दा वहस्स । को देवदाणवन रिंद गणच्चित्रस्स, धम्मस्स सारमुपलम्भ करे पमायम् १ ॥ ३ ॥ कः सचेतनः, धर्मस्य श्रुतधर्मस्य, सारं सामर्थ्यम्, उपलभ्य विज्ञाय श्रुतधर्मोदितेऽनुष्ठाने, प्रमादमनादरं कुर्यात् १, न कश्चित् कुर्यादित्यर्थः । किंविशिष्टस्य श्रुतधर्मस्य ? जातिर्जन्म, जरा विश्रसा, मरणं प्राणनाशः, शोको मानसो दुःखविशेषः, तान् प्रणाशयति अपनयति, जातिजरामरणशोकप्रणाशनः तस्य, श्रुतधर्मोक्तानुष्ठानाद्धि जात्यादयः प्रणश्यन्त्येव, अनेनास्यानर्थप्रतिघातित्वमुक्तम् । कल्यमारोग्यमयति शब्दयति इति कल्याणम्, ३९ For Personal & Private Use Only: 90-1004-14 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy