SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रकाश योग-LD तत्प्रदीपस्थानीयं सम्यक भूतमहति कीर्तनम् , तत्रापि तत्प्रणेतृन् भगवतः प्रथमं स्तौतिशास्त्रम् पुक्खरवरदीवड्डे धायइखंडे अजम्बुद्दीवे अ । भरहेरवयविदेहे धम्माइगरे नमसामि ॥१॥ ॥२२॥ भरतं भरतक्षेत्रम् ऐरवतमैरवतक्षेत्रम, विदेहमिति भीमो भीमसेन इति न्यायाद् महाविदेहक्षेत्रम्, एवं समाहारद्वन्द्वः, तेषु भरतैरवतविदेहेषु धर्मस्य श्रुतधर्मस्यादिकरान सूत्रतः प्रथमकरणशलिान् , नमस्यामि स्तुवेक यानि भरतैरवतमहाविदेहक्षेत्राणि ?, इत्याह- पुष्कराणि पद्मानि, तैर्वर: पुष्करवरः स चासौ द्वीपश्च पुष्करवरद्वीपः तृतीयो द्वीपः, तस्याधे मानुषोत्तराचलादर्वाग्भागवर्ति, तत्र द्वे भरते, द्वे ऐरवते, द्वे महाविदहे, तथा धातकीनां खण्डानि वनानि यस्मिन् स धातकीखण्डो द्वीपः तस्मिन् , द्वे भरते, द्वे ऐरवते, द्वे महाविदेहे। जम्ब्बा उपलक्षितः तत्प्रधानो वा द्वीपो जम्बूद्वीपः, अत्रैक भरतमेकमैरवतमेकं च महाविदेहमित्येताः पञ्चदशकर्मभूमयः। शेषास्त्वकर्मभूमयः यदाह-" भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः” ( तत्त्वा-३।१६) महत्तरक्षेत्रप्राधान्याङ्कीकरणात्पश्चानुपूर्व्या निर्देशः। धर्मादिकरत्वं यथा भगवतां भवति तथा अपौरुषेयवादनिराकरणावसरे प्राग्नितिम् । नन्वेवमपि कथं धर्मादिकरत्वं भगवताम्, 'तप्पुत्विा अरहया' इति वचनाद् वचनस्यानादित्वात् ? नैवम् , बीजाङ्कुरवत्तदुपपत्तेः-बीजाद्धि अङ्कुरो भवति अङ्कराच्च बीजमिति । | एवं भगवतां पूर्वजन्मनि श्रुतधर्माभ्यासात्तीर्थकरत्वम् , तीर्थकृतां च श्रुतधर्मादिकरत्वमदुष्टमेव । न चाऽयं नियमः श्रुतधर्मपूर्वकमवाहत्त्वमिति मरुदेव्यादीनां श्रुतधर्मपूर्वकत्वाभावेऽपि केवलज्ञानश्रवणादित्यलं प्रसङ्गेन । एवं श्रुतधर्मादिकराणां स्तुतिरुक्ता । इदानीं श्रुतधर्मस्याह ॥२२८॥ in Education Internat For Personal & Private Use Only | www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy