________________
Jain Education International
॥ ६५ ॥ पुरं महातूर्यवैः पूर्यमाणदिगन्तरम् । तत्प्राविशन्मूलदेवो राजराज इवालकाम् || ६६ || उत्तीर्णो राजहर्म्येऽसौ सिंहासनमधिष्ठितः ॥ ६७ ॥ अथोचे देवता व्योम्नि देवतानां प्रसादतः । अयं विक्रमराजाख्यो राजा जज्ञे कलानिधिः ॥ ८ ॥ वर्त्तिष्यन्ते न येऽमुष्य शासने क्षितिशासितुः । तानहं निग्रहीष्यामि महीभृत इवाशनिः ॥ ६६ ॥ तद्गरा विस्मितं भीतं सर्व प्रकृतिमण्डलम् । यतेरिवेन्द्रियग्रामः सदा तस्य वशेऽभवत् ।। २०० ।। ततः स राजा विषयसुखान्यनुभवन् व्यधात् । प्रीतिमुञ्जयिनीशेन मिथः संव्यवहारतः ॥ १ ।। तदानीं देवदत्ताऽपि मूलदेवविडम्बनाम् । तादृक्षीं प्रेच्य साक्षेपा व्यत्रवीदचलं प्रति ॥ २ ॥ किं ज्ञाता द्रव्यदर्पान्ध त्वया कुलगृहिण्यहम् । मुमूर्षो मूर्ख महे व्यवाहापर्यदीदृशम् || ३ || त्वयाऽस्मदीयसदने नागन्तव्यमतः परम् । इति निष्कास्य तं गेहात्समीपे नृपतेरगात् ॥ ४ ॥ तया च याचितो राजा स बरो दीयतामिति । यथेच्छं ब्रूहि यच्छामि तं येनेत्यवदन्नृपः ॥ ५ ॥ सोचे मां प्रति नाज्ञाप्यो मूलदेवं विना पुमान् । वारणीयोऽचलश्चायमागच्छन्मम वेश्मनि ।। ६ ।। एवमस्त्विति राज्ञोक्ता ( जोक्त्वा ) हेतुः कोऽत्रेति पृष्टवान् । शशंस माधवी देवदत्तासंज्ञया ततः ॥ ७ ॥ जितशत्रुनृपः कोपाच्चलित भ्रूलतस्ततः । सार्थवाहं तमाहूय साचेपमिदमब्रवीत् ॥ ८ ॥ मत्पुरीमण्डनावेतौ रत्नभूतावरे त्वया । मूर्खेण धनमत्तेन ग्रावणीव निघर्षितौ ॥ ६ ॥ ततोऽमुष्यापराधस्य प्राणापहरणं तव । दण्डोऽस्त्विति नरेन्द्रोक्ते देवदत्ता न्यवारयत् ।। १० ।। त्वं यद्यप्यनयात्रातोऽधुना त्राणं तथापि ते । मूलदेवे समानीते भवेदित्यभ्यधान्नृपः ॥ ११ ॥ नृपं नत्वा ततो गत्वा सार्थवाहः प्रचक्रमे । नष्टरत्नमिवान्वेष्टुं मूलदेवं समन्ततः ॥ १२ ॥ मूलदेवमपश्यन् स भीतो न्यूनतया तथा ।
For Personal & Private Use Only
10-08-10
www.jainelibrary.org