SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् ॥११३॥ भोजयित्वा च गौरवात् । पारस किं न हि ॥८५ न्यको तामुपायत । फलति स्वप्नो विचारस्यानुसारतः ॥ ७९ ॥ धृत्तॊऽपि प्रातरारामे गत्वा पुष्पोच्चयादिना । अप्रीणान्मालिक द्वितीय लोकंपृणं कर्मापि तादृशाम् ।।८०॥ गृहीत्वा मालिकात्तस्मात्स पुष्पाणि फलानि च । शुचिर्भूत्वा ययौ वेश्म * प्रकाश स्वप्नशास्त्रविपश्चितः ।।८१॥ मूलदेवस्ततो नत्वा दत्त्वा पुष्पफलानि च । उपाध्यायाय तज्ज्ञाय शशंस स्वप्नमात्मनः ॥ ८२ ॥ मुदितः सोऽवदद्विद्वान्वत्स स्वप्नफलं तव । मुमुहूर्ते कथयिष्याम्यद्यास्माकं भवातिथिः ।। ८३ ।। मूलदेवं स्नपयित्वा भोजयित्वा च गौरवात् । परिणाययितुं कन्यामुपाध्याय उपानयत् ॥८४ ॥ बभाप मूलदेवोऽपि ताताज्ञातकुलस्य मे । कन्यां प्रदास्यसि कथं विचारयसि किं न हि ॥८५ ॥ उपाध्यायोऽप्युवाचैवं त्वन्माऽपि कुलं गुणाः । ज्ञातास्तत्सर्वथा कन्या ममेयं परिणीयताम् ॥ ८६ ॥ तद्वाचा मूलदेवोऽपि कन्यकां तामुपायत । कार्यसिद्धेभविष्यन्त्याः प्रादुर्भूतमिवाननम् ॥८७॥ मध्ये दिनानां सप्तानां त्वं राजेह भविष्यसि । इति तस्य स्वप्नफलमुपाध्यायो न्यवेदयत् ।। ८८॥ हृष्टस्तत्र वसन् धूर्तराजो गत्वा बहिः पुरात् । सुष्वाप चम्पकतले संप्राप्ते पश्चमेऽहनि ।। ८६ ।। तदा च नगरे तस्मिन्नग्रेतनमहीपतिः । अपुत्रो निधनं प्राप निष्पाद इव पादपः ॥ ६ ॥ मन्त्रोक्षिताः पुरीभाश्वच्छत्रभृङ्गारचामराः । भ्रमुः प्रापुर्न राज्याहं दुष्प्रापस्तादृशो जनः ॥३१॥ ततो बहिः पर्यटन्तो निकषा चम्पकद्रुमम् । अपश्यन्मूलदेवं ते नरदेवपदोचितम् ।।१२॥ हयेन हेषितं चक्रे गजेनोर्जितगर्जितम् । भृङ्गारेण च तस्याश्चामराभ्यां च वीजनम् ।। ६३ ॥ पुण्डरीकं स्वर्णदण्डमण्डितं तस्य चोपरि । शरदभ्रमिवा दभ्रतडिद्दण्डमजृम्भत ॥ १४ ॥ तं चाधिरोहयामास स्वस्कन्धे जयकुञ्जरः । स्वाम्याप्तिमुदितैलोकैश्चके जयजयारवः (१) जनप्रीतिकरम् । (२) श्वेतच्छत्रम् । in Education Interna For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy