SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ वनस्पतित्वं दशधा प्राप्ताः कन्दादिभेदतः । छिद्यन्ते चाथ भिद्यन्ते पच्यन्ते चाग्नियोगतः ॥६५॥ संशोष्यन्ते निपिष्यन्ते प्लुष्यन्तेऽन्योन्यघर्षणैः। क्षारादिभिश्च दह्यन्ते संधीयन्ते च भोक्तृभिः ॥ २६ ॥ सर्वावस्था खाद्यन्ते भज्यन्ते च प्रभजनैः। क्रियन्ते भस्मसाद दावैरुन्मन्यन्ते सरित्सवैः ।। २७ ॥ सर्वेऽपि वनस्पतयः सर्वेषां भोज्यतां गताः । सधैः शस्त्रैः सर्वदाउनुभवन्ति क्लेशसन्ततिम् ॥ २८ ॥ द्वीन्द्रियत्वे च ताप्यन्ते पीयन्ते पूतरादयः । चूर्ण्यन्ते कमयः पादेर्भक्ष्यन्ने चटकादिभिः ।। २६ ।। शङ्खादयो निखन्यन्ते निकृष्यन्ते जलौकसः। गण्डूपदाद्याः पात्यन्ते जठरादौषधादिभिः ॥ ३०॥ त्रीन्द्रियत्वेऽपि सम्प्राप्ते पदयदीमत्कुणादयः । विमृज्यन्ते शरीरेण ताप्यन्ते चोष्णवारिया ॥ ३१ ॥ पिपीलिकास्तु तुद्यन्ते पादैः सम्माजनेन च । अदृश्यमानाः कुन्थ्वाद्या मथ्यन्ते चासनादिभिः॥ ३२ ॥ चतुरिन्द्रियताभाजः सरघाभ्रमरादयः । मधुभवैर्विराध्यन्ते यष्टिलोष्टादिताडनैः ॥३३ ।। ताड्यन्ते तालवृन्ताद्याग देशमशकादयः । ग्रस्यन्ते गृहगोधाद्यैर्मक्षिकामर्कटादयः॥ ३४ ॥ पञ्चन्द्रिया जलचराः खादन्त्यन्योन्यमुत्सुकाः। धीवरैः परिगृह्यन्ते गिल्यन्ते च बकादिभिः ॥ ३५॥ उत्कील्यन्ते त्वचयद्भिः प्राप्यन्ते च भटित्रताम् । भोक्तुकामैपिच्यन्ते निगाल्यन्ते वसाथिभिः ॥ ३६ ॥ स्थलचारिषु चोत्पन्ना अबला बलवत्तरैः । मृगाद्याः सिंहमुखैार्यन्ते मांसकादिभिः ॥ ३७॥ मृगयासक्तचित्तैश्च क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन हन्यन्तेऽनपराधिनः ॥ ३८॥ नुधापिपासाशीतोष्णातिभारारोपणादिना । कशाङ्कशप्रतोदैश्च वेदनां प्रसहन्त्यमी ॥३६ ।। खेचरास्तित्तिरशुककपोतचटकादयः । श्येनसिश्चानगृधाद्यग्रस्यन्ते मांसगृनुभिः ॥ ४०॥ मांसलुब्धैः शाकुनिकै नोपायप्रपञ्चतः। संगृह्य प्रतिहन्यन्ते नानारूपैविडम्बनैः ॥४१॥ जलाग्निशस्त्रादिभवं Education inte For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy