SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ योगशास्रम् ॥३०१ ॥ Jain Education Internationa तिरवां सर्वतो भयम् । कियद् वा वर्ण्यते स्वस्वकर्मबन्धनिबन्धनम् ॥ ४२ ॥ मनुष्यत्वेनार्यदेशे समुत्पन्नाः शरीरिणः । तत् तत् पापं प्रकुर्वन्ति यद् वक्तुमपि न क्षमम् ॥ ४३ ॥ उत्पन्ना आर्यदेशेऽपि चण्डालश्वपचादयः । पापकर्माणि कुर्वन्ति दुःखान्यनुभवन्ति च ॥ ४४ ॥ आर्यवंशसमुद्भूता अप्यनार्यविचेष्टिताः । दुःखदारिद्रयदौर्भाग्यनिर्दग्धा दुःखमासते ॥ ४५ ॥ परसम्पत्प्रकर्षेणापकर्षेण स्वसम्पदाम् । परप्रेष्यतया दग्धा दुःखं जीवन्ति मानवाः || ४६ ।। रुग्जरामरणैर्ग्रस्ता नीचकर्मकदर्थिताः । तां तां दुःखदशां दीनाः प्रपद्यन्ते दयास्पदम् ॥ ४७ ॥ जरा रुजा मृतिर्दास्यं न तथा दुःखकारणम् । गर्भवासो यथा घोरनरके वाससन्निभः ।। ४८ ॥ सूचिभिरग्निवर्णाभिर्भिन्नस्य प्रतिरोम यत् । दुःखं नरस्याष्टगुणं तद् भवेद् गर्भवासिनः ॥ ४६ ॥ योनियन्त्राद् विनिष्क्रामन् यद् दुःखं लभते भवी । गर्भवासभवाद् दुःखात् तदनन्तगुणं खलु ॥ ५० ॥ बाल्ये मूत्रपुरीषाभ्यां यौवने रतचेष्टितैः । वार्द्धक्ये श्वासकासाद्यैर्जनो जातु न लज्जते ॥ ५१ ॥ पुरीषशूकरः पूर्वं ततो मदन गर्दभः । जराजरद्भवः पश्चात् कदापि न पुमान् पुमान् ॥ ५२ ॥ स्याच्छैशवे मातृमुखस्तारुण्ये तरुणीमुखः । वृद्धभावे सुतमुखो मूर्खो नान्तर्मुखः कचित् ॥ ५३ ॥ सेवाकर्षणवाणिज्यपाशुपाल्यादिकर्मभिः । क्षपयत्यफलं जन्म धनाशाविह्वलो जनः ॥ ५४ ॥ कचिच्चौर्य कचिद् द्यूतं कचिद् नीचैर्भुजङ्गता । मनुष्याणामहो ! भूयो भवभ्रमनिबन्धनम् || ५५ || सुखित्वे कामल लितैर्दुःखित्वे दैन्यरोदनैः । नयन्ति जन्म मोहान्धा न पुनर्द्धर्मकर्मभिः || ५६ ॥ श्रनन्तकर्मप्रचयचयक्षममिदं क्षणात् । मानुषत्वमपि प्राप्ताः पापाः पापानि कुर्वते ||७| ज्ञानदर्शनचारित्ररत्नत्रितयभाजने । मनुजत्वे पापकर्म स्वर्णभाण्डे सुरोपमम् ॥ ५८ ॥ संसारसागरगतैः शमिला - For Personal & Private Use Only 20-→ चतुर्थः प्रकाशः ॥३०१ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy