________________
प्रथम: प्रकाशः।
॥२८॥
योग- मूर्छान्ते भरतो बाहुबलिं दण्डेन दर्पतः । ताडयामास दन्तीव तिर्यग्दन्तेन पर्वतम् ॥ ५४ ॥ दण्डेन बाहुबलिना शास्त्रम् P निहतो भरतस्ततः। भूम्यामाजानुमग्नोऽस्थानिखात इव कीलकः॥५५॥ किमेष चक्रवर्तीति भरतः कृतसंशयः।
यावत्संस्मृतवांश्चक्रं तावदागास्करेऽस्य तत् ॥ ५६ ॥ भूमेनिःसृत्य कोपेन महता भरतेश्वरः । चिक्षेप प्रज्वलच्चक्रं कृतहाहारवं बलैः ॥ ५७ ॥ तच्चक्रं पार्श्वतो बाहुबलेन्वा न्यवर्त्तत । दैवतानि हि शस्त्राणि स्वगोत्रे प्रभवन्ति न ॥ ५८॥ अक्षत्रं प्रेक्ष्य तद्वाहुबलिः कोपारुणेक्षणः । सचक्रं चूर्णयाम्येनमिति मुष्टिमुदक्षिपत् ॥५६॥ असाविव कषायैर्धिगहं भ्रातृवधोद्यतः । विजित्य करणग्राम कषायानेव हन्मि तान् ॥ ६० ।। इति सञ्जातसंवेगस्तदा तेनैव मुष्टिना । केशानुत्पाटयामास सामायिकमथाददे ॥ ६१ ॥ साधु साध्विति सानन्दं व्याहरन्तः सुरासुराः । उपरिष्टाद्वाहुबलेः पुष्पवृष्टिं वितेनिरे ॥ ६२॥ गत्वा भगवतः पार्श्वे ज्ञानातिशयशालिनाम् । कनीयसा सोदराणां विधास्ये वन्दनां कथम् ॥ ६३॥ उत्पन्न केवलज्ञानस्तत्तां यास्यामि पर्षदम् । इति तत्रैव मौनेन सोऽस्थात्पतिमया कृती ॥ ६४ ॥ (युग्मम् ) भरतस्तं तथा दृष्ट्वा विचार्य स्वं कुकर्म च । बभूव न्यश्चितग्रीवो विविचुरिव मेदिनीम् ।। ६५ ॥ शान्तरसं मूर्तमिव भ्रातरं प्रणनाम च । नेत्रयोरश्रुभिः कोष्णैः कोपशेषमिवोत्सृजन् ॥६६॥ प्रणमन् भरतस्तस्याधिकोपास्तिविधित्सया । नखादशेषु संक्रान्त्या नानारूप इवाभवत् ।। ६७ ॥ सुनन्दानन्दनमुनेगुणस्तवनपूर्विकाम् । स्वनिन्दिामित्यथाकार्षीत्स्वापवादगदौषधीम् ।। ६८॥ धन्यस्त्वं तत्यजे येन राज्यं मदनुकम्पया। पापोऽहं यदसन्तुष्टो दुर्मदस्त्वामुपाद्रवम् ॥६६॥ स्वशक्तिं ये न जानन्ति ये चान्यायं प्रकुर्वते । जीयन्ते ये च लोभन तेषामस्मि धुरन्धरः ॥ ७० ॥ राज्यं भवतरोबीजं येन जानन्ति तेऽधमाः। तेभ्योऽप्यह
॥२८॥
Jan Education internal
For Personal Private Use Only
www.jainelibrary.org