SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ [CR03+-**---40.K+ स्त्र Jain Education International विशिष्ये यत्तदमुञ्चन् विदन्नपि ॥ ७१ ॥ त्वमेव पुत्रस्तातस्य यस्तातपथमन्वगः । पुत्रोऽहमपि तस्य स्यां चेद्भवामि भवादृशः ॥ ७२ ॥ विषादपङ्कमुत्सार्य पश्चात्तापजलैरिति । तत्पुत्रं सोमयशसं तद्राज्ये स न्यवीविशत् ।। ७३ ।। तदादिसोमवंशोऽभूच्छाखाशतसमाकुलः । तत्तत्पुरुषरत्नानामेकमुत्पत्तिकारणम् ॥ ७४ ॥ ततो बाहुबलि नत्वा भरतः सपरिच्छदः । पुरीमयोध्यामगमत्स्वराज्यश्रीसहोदराम् ॥ ७५ ।। दुस्तपं तप्यमानोऽथ तपो बाहुबलिर्मुनिः । वर्षमेकं व्यतीयाय सह प्राग्जन्मकर्म्मभिः ॥ ७६ ॥ ततश्चामूढलक्ष्येण स्वामिना नाभिसूनुना । ब्राह्मी च सुन्दरी चानुज्ञाते तत्पार्श्वमीयतुः ॥ ७७ ॥ ऊचतुश्च महासत्व समस्वर्णाश्मनस्तव । न युक्तं त्यक्तसङ्गस्य करिस्कन्धाधिरोहणम् ॥ ७८ ॥ एवम्भूतस्य ते हन्त कथं ज्ञानं प्ररोहति । अधःस्थितकरीषाग्नेः पादपस्येव पल्लवः ॥ ७६ ॥ आत्मनैव विचार्य त्वमुत्तितीर्षुर्भवोदधिम् । हस्तिनोऽस्मादवतर तरण्डादायसादिव ॥ ८० ॥ ततोऽसौ चिन्तयामास कुतस्त्यो हस्तिसङ्गमः । पादपारोहमा रूढवल्लीकवपुषो मम ॥ ८१ ॥ त्यजेन्मुद्रां समुद्रोऽपि चलेयुरचला श्रपि । इमे तु भगवच्छिष्ये भाषेते न मृषा कचित् ॥ ८२ ॥ श्राः ज्ञातमथवास्त्येष मान एव मतङ्गजः । स एव मे ज्ञानफलं बभञ्ज विनयद्रुमम् ॥ ८३ ॥ कथं कनीयसो धिगिति चिन्तितम् । तपसा ज्यायसां तेषां मिथ्यादुष्कृतमस्तु मे ॥ ८४ ॥ सुरासुरनमस्यस्य गत्वा भगवतोऽन्तिके । वन्दे कनिष्ठापितांस्तच्छिष्यपरमाणुवत् ॥ ८५ ॥ अचलत्पादमुत्पाट्य यावत्तावदसौ मुनिः । श्रवाप केवलज्ञानं द्वारं निर्वाणवेश्मनः ॥ ८६ ॥ करामलकवद्विश्वं कलयन् केवलश्रिया । समीपे स्वामिनोऽध्यास्त सदः केवलभाखताम् ॥ ८७ ॥ भरतोऽपि महारत्नैश्चतुर्द्दशभिराश्रितः । चतुःषष्टिसहस्रान्तःपुरो नवनिधीश्वरः ॥ ८८ ॥ धर्म्मार्थ वन्दे For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy