SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ योग प्रथमः प्रकाशः। तिम् । स त्रिः प्रदक्षिणा ॥२४॥ ॥२॥ ज्ञानराशिमिवाध्यक्ष पुण्यस्क मामिव वपुष्म कामान् साम्राज्यसम्पले फलोपमान् । परस्पराविरोधेन यथाकालमसेवत ॥ ६ ॥ अन्यदा विहरन स्वामी जगामाष्टापदाचलम् । भरतोऽपि ययौ तत्र स्वामिपादान्विवन्दिषुः॥६० ॥ सुरासुराच्य समवसरणस्थं जगत्पतिम् । स त्रिः प्रदक्षिणीकृत्य नमस्कृत्येति तुष्टुवे ॥६१॥ विश्वासमिव मूर्तिस्थं सवृत्तमिव पिण्डितम् । प्रसादमिव निःशेषजगतामेकतः स्थितम् ॥ १२ ॥ ज्ञानराशिमिवाध्यक्षं पुण्यस्येव समुच्चयम् । सर्वलोकस्य सर्वस्वमिवैकत्र समाहतम् ॥ ३॥ वपुःस्थं संयममिवोपकारमिव रूपिणम् । शीलमिव पादचारि क्षमामिव वपुष्मतीम् ॥ १४ ॥ रहस्यमिव योगस्य विश्ववीर्यमिवैकगम् । सिद्धथुपायमिवावन्ध्यं कौशल्यमिव केवलम् ॥६५॥ मैत्रीमिव मतिमती सदेहां करुणामिव । मुदितामिव पिण्डस्थामुपेक्षामिव रूपिणीम् ॥ १६ ॥ तपःप्रशमसजज्ञानयोगमेकमिवाहतम् । साक्षाद्वैनयिकमिव सिद्धिं साधारणीमिव ॥६७ ॥ व्यापकं हृदयमिव सासां श्रुतसम्पदाम । नमःस्वस्तिस्वधास्वाहावषडमिवापृथक् ॥ ६८॥ विशुद्धधम्मनिम्मोणप्रकमिव केवलम् । समस्ततपसा पिण्डीभूतं फलमिवाखिलम ॥8॥ परभागमिवाशेषगुणराशेरनश्वरम् । उपनमिव निर्विघ्नं श्रेयो निःश्रेयसश्रियः ॥ ५००॥ प्रभावस्यैकधामेव मोक्षस्य प्रतिमामिव । कुलवेश्मेव विद्यानां फलं सर्वाशिषामिव ॥१॥ आर्यवर्यचरित्राणामात्मदर्शमिवामलम् । कूटस्थं प्रशममिव जगतो दत्तदर्शनम् ॥ २॥ दुःखशान्तेरिव द्वारं ब्रह्मचर्यमिवोज्वलम् । पुण्यैरुपनतं जीवलोकस्येवैकजीवितम् ॥ ३ ॥ मृत्युव्याघ्रमुखादेतदाक्रष्टुमखिलं जगत् । बाहुं प्रसारितमिव निर्वाणेन कृपालुना ॥ ४ ॥ ज्ञानमन्दरसंक्षुब्धज्ञेयाम्भोधेः समुत्थितम् । अपरं पीयूषमिव देहभाजाममृत्यवे ॥५॥ विश्वाभयप्रदानेन समाश्वासितविष्टपम् । शरणं त्वां प्रपन्नोस्मि प्रसीद परमेश्वर ॥६॥ तत्र च त्रिज H ॥२8 ।। in Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy