SearchBrowseAboutContactDonate
Page Preview
Page 646
Loading...
Download File
Download File
Page Text
________________ योग शाखम् ३१४ ॥ Jain Education Intergr भैषजक्रिया, कान्ताररोगोपसर्गेषु परिपालनम् एवमादि वैयावृश्यम् । अथ स्वाध्यायः । सुष्ठु मर्यादया कालवेलापरिहारेण पौरुष्यपेक्षया वाऽध्ययनं स्वाध्यायः । स पञ्चविधः - वाचनम्, प्रच्छनम्, अनुप्रेक्षा, आम्नायः धर्मोपदेशचेति । तत्र वाचनं शिष्याध्यापनम् । प्रच्छनं ग्रन्थार्थयोः सन्देहच्छेदाय निश्चितच लाधानाय वा परानुयोगः । अनुप्रेक्षा ग्रन्थार्थयोरेव मनसाऽभ्यासः । श्राम्नायो घोषविशुद्धं परिवर्तनम्, गुणनम्, रूपादानमिति यावत् । धर्मोपदेशोऽर्थोपदेशो व्याख्यानमनुयोगो वर्णनमिति यावत् । अथ विनयः विनीयते क्षिप्यतेऽप्रकारं कर्मानेनेति विनयः । स चतुर्धा, ज्ञान-दर्शन- चारित्रोपचारभेदात् । तत्र बहुमानं ज्ञानग्रहणाभ्यासस्मरणादि ज्ञानविनयः । सामायिकादो लोकविन्दुसारपर्यन्ते श्रुते भगवत्प्रकाशित पदार्थान्यथात्वासम्भवात् तत्त्वार्थश्रद्धानिः शङ्कितत्वादिना दर्शनविनयः । चारित्रवतश्चारित्रे समाहितचित्तता चारित्र विनयः । प्रत्यक्षेष्वाचार्यादिष्वभ्युत्थानाभिगमनाञ्जलि करणादि उपचारविनयः, परोक्षेष्वपि काय वाग्मनोभिरञ्जलिक्रियागुण संकीर्त्तनानुस्मरणादिरुपचारविनयः । अथ व्युत्सर्गः -- व्युत्सर्जनीयस्य परित्यागो व्युत्सर्गः । स द्विविधः वाह्य श्राभ्यन्तरश्च । तत्र बाह्यो द्वादशादिभेदस्योपधेरतिरिक्तस्य, अनेपणीयस्य संसक्तस्य वाऽनपानादेव त्यागः । अभ्यन्तरः कषायाणाम्, मृत्युकाले शरीरस्य च त्यागः । ननु व्युत्सर्गः प्रायश्चित्तमध्य एवोक्तस्तत् किं पुनरत्र वचनेन ? सत्यम्, सोsतिचारविशुद्ध्यर्थ उक्तः, श्रयं तु सामान्येन निर्जरार्थ इत्यपौनरुक्त्यम् । १ अन्नपात्रादेव इति वा माठः । For Personal & Private Use Only •CK +6 चतुर्थः प्रकाशः । ॥ ३९४ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy