SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ __ अथ शुभध्यानध-शुभमातरौद्रविवेकेन शुभरूपं धर्म-शुक्लरूप ध्यानम् अत्रातरौद्रध्याने उक्तपूर्वे, धर्म | शुक्नं च शुभध्याने वक्ष्यते । इत्यनेन प्रकारेण पोढाऽऽभ्यन्तरं तपः । इदं चाभ्यन्तरस्य कर्मणस्तापकत्वात, अभ्यन्तरैरेवान्तर्मुखैर्भगवद्भिर्जायमानत्वाचाभ्यन्तरम् । ध्यानस्य सर्वेषां तपसामुपरि पाठो मोक्षसाधनेष्वस्य प्राधान्यख्यापनार्थः, यदाह;I'संवरविणिजराओ मोक्खस्स पहो तवो पहो तासि । ज्झाणं च पहाणं गं तबस्स तो मोक्खहेऊ तं ॥ १ ॥१०॥ अथ तपसो निर्जराहेतुत्वं प्रकटयन्नाहदीप्यमाने तपोवह्नौ बाह्ये चाभ्यन्तरेऽपि च ।यमी जरति कर्माणि दुर्जराण्यपि तत्क्षणात् ॥९॥ तप एव वह्निः पापवनदाहकत्वात् तपोवह्निस्तस्मिन् दीप्यमाने प्रबलीभूते । किंविशिष्टे ? बाह्येऽनशनादौ, आभ्यन्तरे प्रायश्चित्तादौ सति । यमी संयमवान जरति भस्मसात करोति । अन्तर्भूतण्यर्थत्वात् सकर्मकता। कर्माणि ज्ञानावरणीयादीनि दुर्जराण्यपि दुःखक्षयाण्यपि । निर्जराहेतुत्वं तपस उपलक्षणम् , संवरहेतुत्वादप्यस्य, यदाह वाचकमुख्यः-तपसा निर्जरा च तपसा निर्जरा संवरश्च भवतीत्यर्थः । तपश्च संवरत्वादभिनवकर्मोपचयप्रतिषेधकम् , निर्जरणफलत्वाच्चिरन्तनकर्मनिर्जरकम् , तथा च निर्वाणप्रापकमिति । अत्रान्तरश्लोकाः यथा हि पिहितद्वारमुपायैः सर्वतः सरः । नवैर्नवैर्जलापूरैः पूर्यते नैव सर्वथा ॥ १। तथैवाश्रवनिरोधेन कर्म(१) संवरविनिमेरे मोक्षस्य पन्थास्तपः पन्थास्तयोः । ध्यानं च प्रधानाङ्गं तपसस्ततो मोक्षहेतुस्तत् ।। १॥ For Personal & Private Use Only T w w .dainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy