SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ येषामेकान्तिको भेदः सम्मतो देहदेहिनोः । तेषां देहविनाशेऽपि न हिंसा देहिनो भवेत ॥ १॥ अभेदैकान्तवादेऽपि स्वीकृते देहदेहिनोः। देहनाशे देहिनाशात्परलोकोऽस्तु कस्य वै ॥२॥ भिन्नाभिन्नतया तस्माजीवे | देहात्प्रतिश्रुते । देहनाशे भवेत्पीडा या तां हिंसां प्रचक्षते ॥३॥ दुःखोत्पत्तिर्मन क्लेशस्तत्पर्यायस्य च क्षयः। यस्यां स्यात्सा प्रयत्नेन हिंसा हेया विपश्चिता ॥ ४॥ प्राणी प्रमादतः कुर्याद्यत्प्राणव्यपरोपणम् । सा हिंसा जगदे प्राीज संसारभूरुहः॥५॥शरीरी म्रियतां मा वा ध्रुवं हिंसा प्रमादिनः। सा प्राणव्यपरोपेऽपि प्रमादरहितस्य न ॥६॥ जीवस्य हिंसा न भवेनित्यस्यापरिणामिनः। क्षणिकस्य खयं नाशात्कथं हिंसोपपद्यताम् ॥ ७॥ नित्यानित्ये ततो जीवे परिणामिनि युज्यते । हिंसा कायवियोगेन पीडातः पापकारणम् ॥८॥ केचिद्वदन्ति हन्तव्याः प्राणिनः प्राणिघातिनः । हिंस्रस्यैकस्य घाते स्याद्रक्षणं भूयसां किल ॥६॥ तदयुक्तमशेषाणां हिंस्रत्वात्प्राणिनामिह । हन्तव्यता स्यात्तल्लाभमिच्छोमूलक्षतिः स्फुटा ॥१०॥ अहिंसासम्भवो धर्मः स हिंसातः कथं भवेत् । न तोयजानि पद्मानि जायन्ते जातवेदसः ॥ ११ ॥ पापहेतुर्वधः पापं कथं छेत्तुमलं भवेत् । मृत्युहेतुः कालकूटं जीविताय न जायते ॥ १२ ॥ संसारमोचकास्त्वाहुर्दुःखिनां वध इष्यताम् । विनाशे दुःखिनां दुःखविनाशो जायते किल ॥ १३ ॥ तदप्यसाम्प्रतं ते हि हता नरकगामिनः। अनन्तेषु नियोज्यन्ते दुःखेषु स्वन्पदुःखकाः ॥ १४ ॥ किं च सौख्यवतां घाते धर्मः स्यात्पापवारणात् । इत्थं विचार्य हेयानि वचनानि कुतीर्थिनाम् ॥१॥ चार्वाकाः प्राहुरात्मैव तावन्नास्ति कथश्चन । तं विना कस्य सा हिंसा कस्य हिंसाफलं भवेत् ॥१६॥ भूतेभ्य एव चैतन्यं पिष्टादिभ्यो यथा मदः। भूतसंहतिनाशे च पश्चत्वमिति कथ्यते ॥ १७॥ आत्माभावे च तन्मूल: JainEducation For Personal Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy