SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ योग- * इह च यद्याहारशरीरसत्कारब्रह्मचर्यपोषधवत् कुव्यापारपोषधव्रतमप्यन्यत्रानाभोगनेत्याद्याकारोच्चारणपूर्वकं प्रति तृतीयः शास्त्रम् * पद्यते तदा सामायिकमपि सार्थकं स्यात् । स्थूलत्वात्पोषधप्रत्याख्यानस्य सूक्ष्मत्वाच सामायिकस्येति ।। प्रकाशा तथा पोषधवताऽपि सावधव्यापारा, न कार्या एवं ततः सामायिकमकुवस्तल्लाभाद्भश्यतीति । यदि पुनः ॥१७८॥ सामाचारीविशेषात सामायिकमिव द्विविधं त्रिविधेनेत्येवं पोषधं प्रतिपद्यते तदा सामायिकार्थस्य पोषधेनैव गतत्वान्न सामायिकमत्यन्तं फलवत् । यदि परं पोषधसामायिकलक्षणं व्रतद्वयं प्रतिपन्नं मयेत्यभिप्रायात् फलवदिति ॥ ८५॥ ___ इदानीं पोषधव्रतकर्तृन् प्रशंसति| गृहिणोऽपि हि धन्यास्ते पुण्यं ये पोषधवतम् । दुष्पालं पालयन्त्येव यथा स चुलनीपिता॥८६॥ यतयस्तावद् धन्या एव गृहिणोऽपि गृहस्था अपि ते धन्याः धर्मधनं लब्धारः ये निःसत्त्वजनदुष्पालं पुण्यं पवित्रं पोषधव्रतं पालयन्ति, यथा स चुलनीपितेति दृष्टान्तः स च सम्प्रदायगम्यः । स चायम् अस्ति वाराणसी नामानुगङ्गं नगरी वरा । विचित्ररचनारम्या तिलकश्रीरिवावनः ॥ १॥ सुत्रामवामरावत्यामविसूत्रितविक्रमः । जितशत्रुरभूत्तत्र धरित्रीधवपुङ्गवः ॥२॥ आसीद्गहपतिस्तस्यां महेभ्यश्चुलनीपिता । प्राप्तो मनुष्यधर्मेव मनुष्यत्वं कुतोऽपि हि ॥३॥ जगदानन्दिनस्तस्यानुरूपा रूपशालिनी । श्यामा नामाभवद्भार्या श्यामेव तुहिनातेः॥४॥ अष्टौ निधानेष्टौ वृद्धावष्टौ च व्यवहारगाः। इति तस्याभवन् हेनश्चतुर्विंशतिकोटयः ॥ ५ ॥ एकैकशो गोसहस्रैर्दशभिः प्रमितानि तु । तस्यासन् गोकुलान्यष्टौ कुलवेश्मानि सम्पदाम् ॥१७॥ Latin Education interes For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy