________________
*+++ 10 **
-+Y,UK+K+K
Jain Education International
अथ तृतीयं शिक्षाव्रतमाह
चतुष्पoर्व्या चतुर्थादिकुव्यापार निषेधनम् । ब्रह्मचर्यक्रियास्नानादित्यागः पोषधत्रतम् ॥८५॥ चतुष्पव अष्टमी-चतुर्दशी - पूर्णिमा - श्रमावास्यालक्षणा, चतुर्णां पर्वाणां समाहारचतुष्पर्धी । पर्वशब्दोऽकारान्तोऽप्यस्ति; तस्यां चतुर्थादिकं तपः, कुव्यापारस्य सावद्यव्यापारस्य निषेधः, ब्रह्मचर्यक्रिया ब्रह्मचर्य स्य करणं स्नानादेः शरीरसत्कारस्य त्यागः | आदिशब्दादुद्वर्त्तनवर्णकविलेपन पुष्पगन्धविशिष्ट वस्त्राभरणादिपरिग्रहः । पोषं पुष्टिं प्रक्रमाद्धर्म्मस्य धत्ते पोषधः स एव व्रतं पोपधव्रतम् सर्वतः पोषध इत्यर्थः । द्विविधं हि पोषघवतं देशतः सर्वतश्च । तत्राहारपोपधो देशतो विवचितविकृतेरविकृतेराचामाम्लस्य वा सकृदेव द्विरेव वा भोजनमिति । सर्वतस्तु चतुर्विधस्याप्याहारस्याहोरात्रं यावत्प्रत्याख्यानम् ; कुत्र्यापारनिषेधपोषधस्तु देशत एकतरस्य कस्यापि कुव्यापारस्याकरणं, सर्वतस्तु सर्वेषामपि कृषिसेवावाणिज्यपाशुपान्यगृह कर्मादीनामकरणं, ब्रह्मचर्यपोषधोऽपि देशतो दिवैव रात्रावेव वा, सकृदेव द्विरेव वा स्त्रीसेवां मुक्त्वा ब्रह्मचर्यकरणम् ; सर्वतस्तु अहोरात्रं यावत् ब्रह्मचर्य - पालनम् | देशतः स्नानादे: शरीरसत्कारस्यैकतरस्याकरणं सर्वतस्तु सर्वस्यापि तस्याकरणम् ; इह च देशतः कुव्यापार निषेधपोपधं यदा करोति तदा सामायिकं करोति वा न वा; यदा तु सर्वतः करोति तदा सामायिकं नियमात्करोति, अकरणे तु तत्फलेन वञ्च्यते । सर्वतः पोपधत्रतं च चैत्यगृहे वा, साधुमूले वा, गृहे वा, पोषधशालायां वा त्यक्तमणिसुवर्णाद्यलङ्कारो व्यपगतमालाविलेपनवर्णकः परिहृतप्रहरणः प्रतिपद्यते । तत्र च कृते पठति च पुस्तकं वाचयति धर्मध्यानं ध्यायति, यथैतान् साधुगुणानहं मन्दभाग्यो न समर्थो धारयितुमिति ।
For Personal & Private Use Only
****-**--**<***@K-6-***@→→
www.jainelibrary.org