SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ १७७॥ 1000+3+--- Jain Education International तीच्णानि शिक्षावशतो व्रतान्यपि तथा सुधीः | ३ || माघमासे विभावर्या सोऽन्यदा वासवेश्मनि । श्रादीपज्वलनं स्थास्यामीति सामायिके स्थितः || ४ || तच्छय्यापालिका ध्वान्तं स्वामिनो मा स्म भूदिति । याते प्राग्यामिनीयामे प्रदीपे तैलमक्षिपत् ॥ ५ ॥ गते यामे द्वितीयस्मिन्नपि सा भक्तमानिनी । जाग्रती दीपके क्षीणतैले तैलं न्यधात्पुनः ॥ ६ ॥ त्रियामायास्तृतीयस्मिन्नपि यामे व्यतीयुषि । मल्लिकायां प्रदीपस्य तैलं चिक्षेप सा पुनः ॥ ७ ॥ विभातायां विभावर्यामवसानमथासदत् । श्रमोत्पन्नव्यथाक्नान्तो राजा स इव दीपकः ||८|| सामायिकं समधिगम्य निहत्य कर्म, चन्द्रावतंसनृपतिस्त्रिदिवं ततोऽगात् । सामायिकव्रतजुषो गृहिणोऽपि सद्यः, क्षीयेत कर्म निचितं सुगतिर्भवेच्च ॥ ६ ॥ ॥ इति चन्द्रावतंसराजर्षिकथानकम् ॥ ८३ ॥ द्वितीयं शिक्षाव्रतमाह - दिव्रते परिमाणं यत्तस्य संक्षेपणं पुनः । दिने रात्रौ च देशावकाशिकवतमुच्यते ॥ ८४ ॥ दिग्वते प्रथमगुणव्रते यद्दशस्वपि दिक्षु गमनपरिमाणं तस्य दिवा रात्रौ चोपलक्षणत्वात्प्रहरादौ च यत् सङ्क्षेपणं तद्देशावकाशिकव्रतम् । देशे दिग्वतगृहीतपरिमाणस्य विभागे अवकाशोऽवस्थानं देशावकाशः सोऽत्रास्तीति देशावकाशिकं “ अतोऽनेकस्वरात् " ॥ ७ । २ । ६ ।। इतीकः । दिग्वतसंक्षेपकरणमणुव्रतादिसंक्षेपकरणस्याप्युपलक्षणं द्रष्टव्यम्, एषामपि संक्षेपस्यावश्यं कर्त्तव्यत्वात् । प्रतिव्रतं च संक्षेपकरणस्य विभिन्नव्रतत्वे द्वादश व्रतानीति संख्याविरोधः स्यात् ॥ ८४ ॥ १ पात्रे. For Personal & Private Use Only तृतीयः प्रकाशः । ॥ १७७॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy