SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Jain Education International पोषधशालायां वा सामायिकं गृहीत्वा तत्रैवास्ते तदा गमनं नास्ति । यस्तु राजादिमहर्द्धिकः स गन्धसिन्धुरस्क न्धाधिरूढ छत्रचामरादिराजालङ्करखालङ्कृतो हास्तिका श्रीयपादातिरथकव्यापरिकरितो मेरीभाङ्कारभरिताम्बरतलो बन्दिवृन्द कोलाहला कुलीकृतन मस्तलो अनेक सामन्तमण्डलेश्वराहमहमिकासं यमावादकमल पौरजनैः समजुन्योपदश्यमानो मनोरथैरुपस्पृश्यमानस्तेषामेवाञ्च लिबन्धान् लाजाञ्जतिपातान् शिरःप्रणामाननुमोदमानः “ अहो धन्य धर्मो य एवंविधैरप्युपसेव्य " इति प्राकृतजनैरपि श्लाव्यमानोऽकृतमामायिक एक जिनालयं साधुवसतिं वा गच्छति, तत्र गतो राजककुदानि छत्रचामरोपानमुकुटखरूपाणि परिहरति, जिनाचनं साधुचन्दनं वा करोति यदि त्वसौ कृतसामायिक एवं गच्छेत् तदा गजाश्वादिभिरधिकरणं स्यात्ः तच न युज्यते कर्तुम् । तथा कृत्सामायिकेन पादाभ्यामेव गन्तव्यम्, तच्चानुचितं भुपतीनामिति । आगतस्य च यद्यसौ आवको भवति तदा न कोऽप्यभ्युत्थानादि करोति । अथ यथाभद्रकस्तदा पूजा कृता भवत्विति पूर्वमेवासनं रच्यते । श्राचार्याश्च पूर्वमेवोत्थिता असते मा उत्थानानुत्थानकृता दोषा भूवन्निति, प्रगतश्वासौ सामायिकं करोतीत्यादि पूर्ववत् ॥ ८२ ॥ सामायिकस्थश्व महानिर्जरो भवतीति दृष्टान्तद्वारेणाह सामायिकवस्थस्य गृहिणोऽपि स्थिरात्मनः । चन्द्रावतंसकस्येत चीयते कर्म सञ्चितम् ॥८३॥ गृहस्थस्यापि कृतसामायिकस्य कर्मनिर्जरा भवतीति चन्द्रावतंसक उदाहरणम् । तच्च सम्प्रदायगम्यम् । स चायम्अस्ति साकेतनगरं श्रीसङ्केतनिकेतनम् । हसितेन्द्रपुरश्रीकं सितार्हचैत्यकेतनैः ॥ १ ॥ तत्र लोकहगानन्दो द्वितीय इव चन्द्रमाः | चन्द्रावतंसो राजाऽसीदवतंस इवावनेः || २ || स यथा धारयामास शस्त्राणि त्राणहेतवे । For Personal & Private Use Only *1*-*-* -*-* 03.-4031 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy