________________ श्रायु:कर्मसकाशादधिकानि स्युर्यदाऽन्यकर्माणि। तत्साम्याय तदोपक्रमेत योगी समुद्घातम्॥ ___ यावत्यायुःकर्मणः स्थितिः शेषा तावत्येव वेदनीयस्य कर्मणो यदि स्यात्तदा तृतीयं ध्यानमारभते / अथायुःस्थितेः सकाशाद्राधीयसी स्थितिवेदनीयस्य भवति तदा स्थितिघातरसघाताद्यर्थ समुद्घातं प्रयत्नविशेष करोति / यदाह यस्य पुनः केवलिनः कर्म भवत्यायुषोऽतिरिक्ततरम् / स समुद्घातं भगवानथ गच्छति तत्समीकर्तुम् // 1 // इति / समुद्घात इति सम्यगपुनर्भावेन उत प्राबल्येन हननं घातः शरीराबहिर्जीवप्रदेशानां निःसारणम् // 50 // तस्य विधिमाहदण्डकपाटे मन्थानकं च समयत्रयेण निर्माय / तुर्ये समये लोकं निःशेषं पूरयद्योगी // 51 // __इह प्रथमसमय एव स्वदेहतुन्यविष्कम्भमूर्ध्वमधश्चायतं लोकान्तगामिनं जीवप्रदेशसंघातं दण्डाकारं केवली करोति / द्वितीयसमये च तमेव दण्डं पूर्वापरदिग्द्वयप्रसारणात् पार्श्वतो लोकान्तगामि कपाटमिव कपाटं करोति / तृतीयसमये तु तदेव कपाटं दक्षिणोत्तरदिग्द्वयप्रसारणान्मन्थानमिव मन्थानं करोति लोकान्तप्रापिणमेव / एवं च लोकस्य प्रायो बहु पूरितं भवति / चतुर्थसमये तु मन्थान्तराण्यपूरितानि अनुश्रेणिगमनात् सह लोकनिष्कुटैः परयति / ततश्च सकलो लोको जीवप्रदेशैः पूरितो भवति / लोकपूरणश्रवणाच परेषामात्मविभुत्ववादःसमुद्भुतः। तथा चार्थवाद:-" विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतःपात्" इत्यादि // 51 // अथ पञ्चमादिसमयेषु कर्तव्यमाह Jain Education interLI For Personal & Private Use Only www.jainelibrary.org