SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् एकादश प्रकाशः। // 386 // समयैस्ततश्चतुर्भिनिवर्तिते लोकपूरणादस्मात् / विहितायु:समकर्मा ध्यानी प्रतिलोममार्गेण 52 ततः पञ्चमसमये पूर्वक्रमात् प्रतिलोमं मन्थान्तराणि जीवप्रदेशरूपाणि सकर्मकाणि संकोचयति / षष्ठे समये मन्थानमुपसंहरति, घनतरसंकोचात् / सप्तमे समये कपाटमुपसंहरति, दण्डात्मनि संकोचात् / अष्टमे समये दण्डमुपसंहृत्य शरीरस्थ एव भवति / समुद्घातकाले च मनोवाग्योगयोरव्यापार एव, प्रयोजनाभावात् / काययोगस्यैव केवलस्य व्यापारः / तत्रापि प्रथमाष्टमसमययोरौदारिककायप्राधान्यादौदारिककाययोग एव / द्वितीयषष्ठसप्तमेषु समयेषु पुनरौदारिकाद्वहिर्गमनात् कार्मणवीर्यपरिस्पन्दादौदारिककार्मणमिश्रः / तृतीयचतुर्थपञ्चमेषु औदारिकाद्वहिर्बहुतरप्रदेशव्यापारादसहायकार्मणयोग एव / यदाह औदारिकप्रयोक्ता प्रथमाष्टमसमययोरसाविष्टः / मिश्रौदारिकयोक्ता सप्तमषष्ठद्वितीयेषु // 1 // कार्मणशरीरयोगी चतुर्थके पश्चमे तृतीये च / समयत्रयेऽपि तस्मिन् भवत्यनाहारको नियमात् // 2 // परित्यक्तसमुद्घातश्च कारणवशाधोगत्रयमपि व्यापारयति, यथा-अनुत्तरसुरः पृष्टो मनोयोग सत्यं वाऽसत्यामृष वा प्रयुते / एवमामन्त्रणादौ वाग्योगमपि, नेतरौ द्वौ भेदौ / द्वयोरपि काययोगमप्यौदारिकं फलकप्रत्यपणादाविति / ततोऽन्तर्मुहूर्त्तमात्रेण कालेन योगनिरोधमारभते / इह त्रिविधोऽपि योगो द्विविधः-सूक्ष्मो बादरश्च / तत्र केवलोत्पत्तेरुत्तरकालो जघन्येनान्तर्मुहूर्त्तम् , उत्कर्षेण च देशोना पूर्वकोटिः, तां विहृत्यान्तर्मुहूर्तावशेषायुष्का सयोगिकेवली प्रथमं बादरकाययोगेन बादरौ वाङ्मनसयोगौ निरुणद्धि / ततः सूक्ष्मकाययोगेन बादरकाययोगं // 386 // Lain Education inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy