________________ निरुणद्धि / सति तस्मिन् सूक्ष्मयोगस्य रोध्धुमशक्यत्वात् / न हि धावन् वेपथु वारयति / ततश्च सर्वबादरयोगनिरोधानन्तरं सूक्ष्मेण काययागेन सूक्ष्मौ वाङ्मनसयोगौ निरुणद्धि / ततः सूक्ष्मक्रियमनिवर्ति शुक्लध्यानं ध्यायन् खात्मनैव सूक्ष्मकाययोगं निरुणद्धि // 52 // एतदेवार्यात्रयेणाह श्रीमानचिन्त्यवीर्यः शरीरयोगेऽथ बादरे स्थित्वा। अचिरादेव हि निरुणद्धि बादरौ वाङ्मनसयोगौ // 53 // 'सूक्ष्मेण काययोगेन काययोगं स बादरं रुन्ध्यात् / तस्मिन्ननिरुद्धे सति शक्यो रोऽधुं न सूक्ष्मतनुयोगः // 54 // वचनमनोयोगयुगं सूक्ष्म निरुणद्धि सूक्ष्मात्तनुयोगात् / / विदधाति ततो ध्यानं सूक्ष्मक्रियमसूक्ष्मतनुयोगम् // 55 // स्पष्टाः // 53-55 // तदनन्तरं समुत्सन्नक्रियमाविर्भवेदयोगस्य / अस्यान्ते क्षीयन्ते त्वघातिकर्माणि चत्वारि // स्पष्टः // 56 // ततश्च in Education For Personal Private Use Only alwww.jainelibrary.org