SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ योग द्वितीय प्रकाशः। शास्त्रम् ॥८१॥ नन्दममन्दं विश्ववल्लभः । असौ तत्राश्रमे तस्थौ प्रावटकालोऽप्युपस्थितः ॥ २००॥ तत्राऽसौ निवसंस्तेन बलेनेव जनार्दनः। शास्त्राणि शस्त्राण्यत्राणि सर्वाण्यध्याप्यते स्म च ॥१॥ वर्षात्यये समायाते सारसालापबन्धुरे । बन्धाविव फलाद्यर्थ प्रचलुस्तापसा वनम् ॥२॥ सादरं कुलपतिना वार्यमाणोऽप्यगादूनम । तैः सह ब्रह्मदत्तोऽपि कलभः कलभैरिव ॥३॥ भ्रमनितस्ततोऽपश्यद्विण्मत्रं तत्र दन्तिनः । प्रत्यग्रमिति सोऽमस्त हस्ती कोऽप्यस्ति दूरतः ॥४॥ तापसैर्वार्यमाणोऽपि ततः सोऽनुपदं व्रजन् । योजनपश्चक स्यान्ते नाग नगमिवैक्षत ॥५॥ निःशङ्क बद्धपर्यङ्कः कुर्वन् गर्जितमूर्जितम् । मल्लो मन्नमिवादास्त नृहस्ती मत्त" हस्तिनम् ॥ ६॥ क्रुधोद्धषितसर्वाङ्गो व्याकुञ्चितकरः करी । निष्कम्पकर्णस्ताम्रास्यः कुमारं प्रत्यधावत ॥७॥ इभोऽभ्यर्णेऽभ्यगाद्यावत् कुमारस्तावदन्तरे । उत्तरीयं प्रचिक्षेप तं वञ्चयितुमर्भवत् ॥८॥ अभ्रखण्डमिव भ्रश्यदन्तरिक्षात्तदंशुकम् । दशनाम्यां प्रतीयेष क्षणादेषोऽत्यमर्षणः॥६॥ एवंविधाभिश्चेष्टाभिः कुमारस्तं मतङ्गजम् । लीलया खेलयामासाहितुण्डिक इवारेगम् ॥ १०॥ सखेव ब्रह्मदत्तस्यात्रान्तरे कृतडम्बरः। धाराधरोऽम्बुधाराभिरुपदुद्राव तं गजम् ॥ ११ ॥ ततो रसित्वा विरसं मृगनाशं ननाश सः । कुमारोऽपि भ्रमन्नद्रिदिग्मूढः प्राप निम्नगाम् ॥ १२॥ उत्ततार कुमारस्तां नदी मूामिवापदम् । ददर्श च तटे तस्याः पुराणं पुरमुद्वसम् ॥ १३ ।। कुमारः प्रविशंस्तस्मिन्नपश्यद्वंशजालिकाम् । तत्रासिवसुनन्दौ चोत्पातकेतुविधू इव ॥ १४ ॥ तौ गृहीत्वा कृपाणेन कुमारः शस्त्रकौतुकी । चिच्छेद कदलीच्छेदं तां महावंशजालिकाम् ॥ १५ ॥ वंशजालान्तरे चासौ स्फुरदोष्ठदलं शिरः । ददर्श पतितं पृथ्व्यां स्थलपद्ममिवाग्रतः ॥ १६॥ सम्यक् पश्यन्त्रपश्यच्च ब्रह्मस्तत्र कस्यचित् । ॥ १॥ JainEducation inteneK For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy