SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् पश्येत्यनेत मुग्धबुद्धिमभिमुखयति । सङ्गमको नामेति सङ्गमकाभिधानः, वत्सपालो वत्सपालनजीवकः, तृतीया चमत्कारकरी सम्पदं प्राप; कुतः ? मुनिदानप्रभावतः । अत्र सङ्गमकस्य पारम्पर्येण मोक्षोऽपि फलमस्ति, तथापि प्रकाशः। प्रासङ्गिकफलाभिधानरमसेन स नोक्तः । सङ्गमकचरितं च सम्प्रदायगम्यम् । स चायम्॥१८५॥ मगधेष्वस्ति निःसीमरनप्राग्भारभासुरम् । पुरं समुद्रवद्राजगृहं कुलगृहं श्रियः ॥ १॥ राजा पुरं तदपरैरनुलAI चितशासनः । शशास श्रेणिकः पाकशासनः स्वःपुरीमिव ॥ २॥ शालिग्रामेऽथ धन्येति काचिदुच्छिन्नवंशिका । त बालं सङ्गमकं नाम समादाय समाययौ ॥ ३ ॥ वसंस्तत्र स पौराणां वत्सरूपाण्यचारयत् । अनुरूपा ह्यसौ रोखा लाना मृदजीविका ॥ ४ ॥ अथापरेधुः संजाते तत्र कर्मिंश्चिदुत्सवे । पायसं सङ्गमोऽपश्यद भुज्यमानं गहे गडे | ॥५॥ गत्वा स्वगेहे जननी ययाचे सोपि पायसम् । साऽप्युवाच दरिद्रामि मद्हे पायसं कुतः ?॥६॥ [4] बालेन तेनाज्ञतया याच्यमाना मुहुर्मुहुः । स्मरन्ती पूर्वविभवं तारतारं रुरोद सा ॥ ७॥ तस्या रुदितदःखेनान| विद्धहृदया इव । आगत्य प्रातिवेश्मिन्यः पप्रच्छुर्दुःखकारणम् ॥८॥ ताभ्योऽभ्यधत्त सा दुःखकारणं गद्दारैः। क्षीराद्यदुश्च तास्तस्यै साऽपचत् पायसं ततः ॥६॥ खण्डाज्यपायसैर्भूत्वा स्थालं बालस्य तस्य सा। आर्पयत्प्रययौ चान्तर्गृहं कार्येण केनचित् ।।१०॥ अत्रान्तरे च कोऽप्यागान्मुनिर्मासमुपोषितः । पारणाय भवोदन्वचारणायास्य नौरिव ॥ ११ ॥ सोचिन्तयदिदं चिन्तामाणिक्यमिव चेतनम् । जङ्गमः कल्पशाखीव कामधेनुरिवापशुः॥१२॥ साधु साधु महासाधुर्मद्भाग्यैरयमाययौ । कुतोऽन्यथा वराकस्य ममेहपात्रसङ्गमः ॥१३॥ भाग्योदयेन केनापि । ममाद्य समपद्यत । चित्तं वित्तं च पात्रं च त्रिवेणीसङ्गमो ह्ययम् ॥ १४ ॥ इत्यसौ स्थालमुत्पाठ्य पायसं साधवे १८५॥ Jain Education inter For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy