SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Jain Education Inten KK 084108498--0 काङ्क्षिणः ।। ४१ ।। दानं स्यात्सफलं पात्रे कुपात्रापात्रयोरपि । पात्रे धर्माय तच्च स्यादधर्माय तदन्ययोः ॥ ४२ ॥ पयःपानं भुजङ्गानां यथा विषविवृद्धये । कुपात्रापात्रयोदनं तद्वद्भवविवृद्धये ॥ ४३ ॥ स्वादु चीरं यथा क्षिप्तं कवला बुनि दुष्यति । दानं दत्तं शुद्धमपि कुपात्रापात्रयोस्तथा ॥ ४४ ॥ दत्ता कुपात्रापात्राभ्यां सर्वोर्व्यपि फलाय न । पात्राय दत्तो ग्रासोऽपि श्रद्धया स्यान्महाफलः ॥ ४५ ॥ इयं मोचफले दाने पात्रापात्रविचारणा । दयादानं तु तत्त्वज्ञैः कुत्रापि न निषिध्यते ॥ ४६ ॥ शुद्ध्यशुद्धिकृता भङ्गाचत्वारः पात्रदानयोः । श्रद्यः शुद्धो द्वितीयो वैकल्पिकोऽन्यौ तु निष्फलौ ॥ ४७ ॥ दानेन भोगानानोतीत्यविमृश्यैव भाष्यते । अनर्घ्यपात्रदानस्य क्षुद्रा भोगाः कियत्फलम् ? ॥ ४८ ॥ पात्रदाने फलं मुख्यं मोक्षः सस्यं कृषेरिव । पलालमिव भोगास्तु फलं स्यादानुषङ्गिकम् ॥ ४६ ॥ जिनानां दानदातारः प्रथमे मोक्षगामिनः । धनादयो दानधर्माद्बोधिवीजमुपार्जयन् ॥ ५० ॥ जिनानां पारणे भिक्षादातृणां मन्दिराजिरे । हर्षोत्कर्षपराः सद्यः पुष्पवृष्टिं व्यधुः सुराः ॥ ५१ ॥ इत्यतिथिसंविभागव्रतमेतदुदीरितं प्रपञ्चेन । देयादेये पात्रापात्रे ज्ञात्वा यथोचितं कुर्यात् ॥ ५२ ॥ ८७ ॥ यद्यपि विवेकिनः श्रद्धावतः सत्पात्रदाने साक्षात्पारम्पर्येण वा मोक्षः फलं, तथापि मुग्धजनानुग्रहार्थं पात्रदानस्य प्रासङ्गिकं फलमाह - पश्य सङ्गमको नाम सम्पदं वत्सपालकः । चमत्कारकरीं प्राप मुनिदानप्रभावतः ॥ ८८ ॥ ( १ ) न त्वपात्रकुपात्रयोः इति वा पाठः For Personal & Private Use Only: 01-0.08-10-08 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy