SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ योग तृतीयः प्रकाशः। ॥१८४॥ पात्रेभ्यो दातव्यानि विपश्चिता ॥ २३ ॥ ज्ञानदर्शनचारित्ररूपरत्नत्रयान्विताः । समितीः पञ्च बिभ्राणा गुप्तित्रितयशालिनः ।। २४ ॥ महाव्रतमहाभारधरणकधुरन्धराः। परीषहोपसर्गारिचमूजयमहाभटाः ।। २५ । निर्ममत्वाः शरीरेऽपि किमतान्येषु वस्तुषु । धर्मोपकरणं मक्त्वा परित्यक्तपरिग्रहाः ॥ २६ ॥ द्विचत्वारिंशता दोषैरदुष्ट भैक्षमात्रकम् । आददाना वपुर्धर्मयात्रामात्रप्रवृत्तये ॥ २७ ॥ नवगुप्तिसनाथेन ब्रह्मचर्येण भूषिताः । दन्तशोधनमा- | त्रेऽपि परस्ते विगतस्पृहाः ॥ २८ ।। मानापमानयोाभालाभयोः सुखदुःखयो । प्रशंसानिन्दयोहेपेशोकयोस्तुल्यवृत्तयः ॥ २६ ॥ कृतकारितानुमतिप्रभेदारम्भवर्जिताः । मोक्षकतानमनसो यतयः पात्रमुत्तमम् ॥ ३० ॥ सम्यग्दर्शनवन्तस्तु देशचारित्रयोगिनः । यतिधर्मेच्छवः पात्रं मध्यमं गृहमेधिनः ॥ ३१ ॥ सम्यक्त्वमात्रसन्तुष्टा व्रतशीलेषु निःसहाः। तीर्थप्रभावनोद्युक्ता जघन्यं पात्रमुच्यते ॥३२॥ कुशास्त्रश्रवणोत्पन्नवैराग्यानिष्परिग्रहाः । ब्रह्मचर्यरता: स्तेयमृषाहिंसापराङ्मुखाः॥३३॥ घोरव्रता मौनजुषः कन्दमूलफलाशिनः। शिलोच्छवृत्तयः पत्रभोजिनो भैक्षजीविनः ॥ ३४ ॥ कषायवत्रा निर्वस्त्राः शिखामौण्ड्यजटाधराः। एकदण्डास्त्रिदण्डा वा गृहारण्यनिवासिनः ॥ ३५ ॥ पञ्चाग्निसाधका ग्रीष्मे गलन्तीधारिणो हिमे । भस्माङ्गरागाः खवाङ्गकपालास्थिविभूषणाः ॥ ३६ ।। स्वबुद्ध्या | धर्मवन्तोऽपि मिथ्यादर्शनषिताः। जिनधर्मद्विषो मूढाः कुपात्रं स्युः कुतीर्थिनः ॥३७ ॥ प्राणिप्राणापहरणा मृषावादपरायणाः । परस्वहरणोयुक्ताः प्रकामं कामगर्दभाः ॥ ३८॥ परिग्रहारम्भरता न सन्तुष्टाः कदाचन । मांसाशिनो मद्यरताः कोपनाः कलहप्रियाः ॥ ३९ ॥ कुशास्त्रमात्रपाठेन सदा पण्डितमानिनः । तत्वतो नास्तिक| प्राया अपात्रमिति शंसिताः ॥ ४०॥ इत्यपात्रं कुपात्रं च परिहत्य विवेकिन । पात्रदाने प्रवन्ते सुधियो मोक्ष ॥१८४॥ Jain Education Intera For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy