SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ किं फलं भवेत तारकृश्चिका । गि हुतोपमम् । श्रमसे कोऽयमागमः धार्मिकः ॥ ६॥ यस्या अपाने तीर्थानि मुखेनाश्नाति याऽशुचिम् । तां मन्वानाः पवित्रां गां धर्माय ददते जडाः ॥७॥ प्रत्यहं दुहामानायां यस्यां वत्सः प्रपाब्यते । खुरादिभिर्जन्तुनी तां दद्याद्गां श्रेयसे कथम् ? ॥८॥ स्वर्णमयी रूप्यमयी तिलनय्याज्यमय्यपि । विभज्य भुज्यते धेनुस्तदातुः किं फलं भवेत् ॥ ६॥ कामगर्द्धकरी बन्धुस्नेहदुमदवानलः । कलेः कलितरुर्दुर्गदुर्गतिद्वारकुचिका ।। १० ।। मोक्षद्वारार्गला धर्मधनचौरी विपत्करी । या कन्या दीयले साऽपि श्रेयसे कोऽयमागमः १ ॥११॥ विवाहसमये मूढधर्मयुद्ध्या विधीयते । यतु यौतुकदान तत्साद्भस्मनि हुतोपमम् ।। १२॥ यत् संक्रान्तौ व्यतीपाते वैधृते पर्वयोरपि दानं प्रवर्तितं लुब्धैर्मुग्धसंमोहनं हि तत् ॥ ३॥ मृतस्य तृप्त्यै ये दानं तन्वन्ति तनुबुद्धयः । ते हि सिञ्चन्ति मुशलं सलिले पल्लवेच्छया ॥१॥ विप्रेभ्यो भोजने दले प्रीयन्ते पितरो यदि । एकस्मिन् भुक्तवत्यन्यः पुधः किन भवेदिह ? ।।५।। अपत्यदत्तं चेदानं पितृणां पापमुक्तये । पुत्रेण तप्ते तासि तदा मुक्ति पिताऽऽप्नुयात् ॥ १६ ॥ गङ्गागवादी दानेन तरन्ति पितरो यदि । तत्रोक्ष्यन्तां प्ररोहाय गृहे दग्धा गुमास्तदा ॥ १७ ॥ गतानुगतिकैः क्लुप्तं न दद्यादुपयाचितम् । फलन्ति हन्त ! पुण्यानि पुण्याभावे मुधैव तत् ॥ १८ ॥ न कोऽपि शक्यते त्रातुं पूर्ण काले सुरैरपि । दत्तोपयाचितैस्तेषां विम्बैस्वायं महामृतम् ।।१६।। महोतं वा महाज वा श्रोत्रिपायोपकल्पयन् । दाताऽत्मानं च पात्रं च पातयेन्नरकावटे ॥ २० ॥ ददद्धर्मधिया दाता न तथाऽधेन लिप्यते । जानन्नपि यथा दोषं ग्रहीता मांसलोलुपः ॥ २१॥ अपात्रप्राणिनो हत्वा पात्रं पुष्णन्ति ये पुनः ।। अनेकभेकघातेन ते प्रीणन्ति भुजङ्गमम् ॥ २२ ॥ न स्वर्णादीनि दानानि देयानीत्यर्हतां मतम् । अन्नादीन्यपि Education Interations For Personal & Private Use Only
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy