________________
तृतीय:
योगशास्त्रम्
| ॥३०॥ स माखुस्रजं विभ्रत् कण्ठे च सरटस्रजम् । नकुलान् कर्णिकास्थानेऽङ्गदस्थाने च पन्नगान् ॥३१॥ क्रुद्धान्तकसमुत्क्षिप्ततर्जनाङ्गलिदारुणम् । उदस्यन्त्रपकोशासिं कामदेवं जगाद सः ॥ ३२ ।। अप्रार्थितप्रार्थक! रे ! प्रकाशः। किमारब्धमिदं त्वया । किं स्वर्गमपवर्ग वा वराक ! त्वमपीच्छसि ? ॥ ३३ । मुश्चारन्धमिदं नो चेदनेन निशितासिना । तरोरिव फलं स्कन्धात् पातयिष्यामि ते शिरः ॥ ३४ । तर्जयत्यपि तत्रैवं समाधेर्ने चचाल सः । शरभः शैरिभारावैः किं क्षुभ्यति कदाचन ? ॥ ३५ ॥ कामदेवः शुभध्यानाद् न चचाल यदा तदा । व्याजहार तथैवायं द्विस्त्रित्रिदशपांसनः ॥ ३६ ।। तत्राप्यनुभ्यतः सोऽस्य क्षोभायैभं वपुर्व्यधात् । स्वशक्त्यन्तमनालोक्य विरमन्ति खला न हि ।। ३७ ॥ सोऽधत्त विग्रहं तुङ्गं सजलाम्भोदसोदरम् । सर्वतोऽप्येत्य मिथ्यात्वं राशीभूतमिवैकतः ॥ ३८ ॥ स दीर्घदारुणाकारं विषाणद्वन्द्वमुन्नतम् । धारयामास कीनाशभुजदण्डविडम्बकम् ॥ ३९ ।। किश्चिदाकुश्चितां शुण्डां कालपाशामियोद्वहन् । कामदेवं जगादैवं देवः कूटैकदैवतम् ।।४०॥ मायाविन् ! मुच्यतां । माया सुखं तिष्ठ मदाज्ञया । पाखण्डगुरुणा केन त्वमस्येवं विमोहितः १ ॥४१॥ न चेद् मुञ्चस्यमुं धर्म शुण्डादण्डेन तद् द्रुतम् । क्रक्ष्यामि त्वामितः स्थानाद् नेष्यामि च नमोऽङ्गणे ॥ ४२ ॥ व्योम्नः पतन्तं दन्ताभ्यां प्रेषयिष्यामि चान्तरा । अवनम्य ततस्ताभ्यां दारयिष्यामि दारुवत् ॥ ४३ ॥ पादैः कर्दममदं च त्वां मर्दिष्यामि निदेयम् । एकपिण्डीकरिष्यामि तिलपिष्टिमिव क्षणात ॥४४॥ उन्मत्तस्येव तस्यैवं घोरं व्याहरतोऽपि हि । नोत्तरं कामदेवोऽदाद् ध्यानसंलीनमानसः ॥ ४५ ॥ असंक्षुभितमीक्षित्वा कामदेवं दृढाशयम् । द्विस्त्रिश्चतुरभाषिष्ट तथैव १.प्रत्येयिष्यामि' इति प्रत्यन्तरम् ।
॥२६॥
Jain Education int
For Personal & Private Use Only
www.jainelibrary.org