SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ स दुराशयः ।। ४६ ॥ ततोऽप्यभीतं तं प्रेक्ष्य शुण्डादण्डेन सोऽग्रहीत । व्योमन्युच्छालयामास प्रतीयेप च पूलबत् ॥४७॥ दलयामास दन्ताभ्यां पादन्यासममर्द च । धर्मकर्मविरुद्धानां किमकृत्यं दुरात्मनाम् ॥४८॥ अधिसेहे च तत सर्व कामदेवो महामनाः । मनागपि च न स्थैर्य जहौ गिरिवि स्थिरः ॥ ४६॥ तस्मिनचलिते ध्यानादीदृशेनापि कर्मणा । सदर्पः सर्परूपं स विदधे विबुधाधमः ॥ ५० ॥ देवः पूर्ववदेवोचे स तं भापयितुं ततः । कामदेवस्तु नाभेपीद् ध्यानसंवर्मितः सुधीः ॥ ५१ ।। भूयो भूयस्तथोक्त्वा तं निर्भीक प्रेक्ष्य दुःसुरः । आतोद्यमिव वर्ऋण खभोगेनाभ्यवेष्टयत् ।। ५२ ॥ निःशूकमेव दशनैदेदशूको ददंश तम् । स तु ध्यानसुधामग्नो न तद्बाधा मजीगणत् ॥ ५३ ।। दिव्यरूपं ततः कृत्वा पुतिद्योतितदिङ्मुखम् । सुरः पौषधशालायां विवेशैवमुवाच च ।। ५४ ॥ * धन्योऽसि कामदेव ! त्वं देवराजेन संसदि । प्रशंसाऽकारि भवतोऽसहिष्णुस्तामिहागमम् ॥ ५५ ॥ प्रभवः प्राभ वेणापि वर्णयन्ति ह्यवस्त्वपि । अतः परीक्षितोऽसि त्वं नानारूपभृता मया ॥५६॥ त्वां यथाऽवर्ण यच्छक्रस्तथैवासि न संशयः । क्षम्यतामपराधो मे परीक्षणभवस्त्वया ॥ ५७ ॥ प्रययावभिधायैवं स देवो देवसबनि । कामदेवोऽपि शुद्धात्मा प्रतिमा तामपारयत् ॥ ५८ ॥ उपसर्गसहिष्णुं तमश्लाषिष्ट स्वयं प्रभुः। सभायां भगवान् वीरो गुरवो गुणवत्सलाः ॥५६॥ कामदेवो द्वितीयस्मिन्नति पारितपोषधः । त्रिजगत्स्वामिनः पादवन्दनार्थमथागमत् ॥ ६०॥ * जगद्गुरुरभाषिष्ट गौतमप्रभृतीनिति । गृहिधर्मेऽप्यसावेवमुपसर्गान् विसोढवान् ॥ ६१॥ सर्वसङ्गपरित्यागाद् यतिधर्मपरायणैः । तद्विशेषेण सोढव्या उपसर्गा भवादृशैः ॥ ६२ ॥ कर्मनिर्मूलनोपायान् श्रावकप्रतिमास्ततः । एकादशापि शिश्राय कामदेवः क्रमेण ताः ॥६३॥ सोऽथ संलेखनां कृत्वा प्रपेदेऽनशनव्रतम् । परं समाधिमापन्नः In Education interations For Personel Private Use Only T www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy