SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Jain Education Int इईए कम्माणं नाऊणं वा विबागमसुहं ति । अवरद्धे वि न कुप्पह उवसमओ सव्वकालं पि ॥ १ ॥ अन्ये तु क्रोधकण्डूविषयतृष्णोपशमः शम इत्याहुः । अधिगतसम्यग्दर्शनो हि साधूपासनावान् कथं क्रोधकण्ड्वा विषयतृष्णया च तरलीक्रियेत ? ननु क्रोधकण्डूविषय तृष्णोपशमश्चेच्छमस्तर्हि कृष्णश्रेणिकादीनां सापराधे निरपराधेऽपि च परे क्रोधवतां विषयतृष्णातरलितमनसां च कथं शमः १ तदभावे च सम्यक्त्वं न गम्येत ? नैवम् । दृश्यते हि धूमरहितोऽप्ययस्कारगृहेषु वह्निः भस्मच्छन्नस्य वा वहेर्न धूमलेशोऽपीति । अयं तु नियमः सुपरीक्षिते लिङ्गे सति लिङ्गी भवत्येव । यदाह- लिङ्गे लिङ्गी भवत्येव लिङ्गिन्येवेतरत्पुनः । नियमस्य विपर्यासे सम्बन्धो लिङ्गलिङ्गिनोः ॥ १ ॥ सज्ज्वलन कषायोदयाद्वा कृष्णादीनां क्रोधकण्डूविषयतृष्णे । सज्ज्वलना अपि केचन कषायास्तीव्रतया अनन्तानुबन्धिसदृशविपाकवन्त इति सर्वमवदातम् । संवेगो मोचाभिलाषः । सम्यग्दृष्टिहिं नरेन्द्र सुरेन्द्राणां विषयसुखानि दुःखानुषङ्गादुःखतया मन्यमानो मोक्षसुखमेव सुखत्वेन मन्यते अभिलषति च । यदाह - रविबुसरसोक्खं दुक्खं चिय भावओो अ मनंतो । संवेगओ न मोक्खं मोत्तूगं किंचि पच्छे (त्थे ) इ ॥ १ ॥ निर्वेदो भववैराग्यम् । सम्यग्दर्शनी हि दुःखदौर्गत्यगहने भवकारागारे कर्मदण्डपाशिकैस्तथातथा कदर्थ्यमानः प्रतिकर्त्तुमक्षमो ममत्वरहितच दुःखेन निव्र्व्विष्मो भवति । यदाह- (१) प्रकृत्याः कर्मणां ज्ञात्वा वा विपाकमशुभमिति । अपराधेऽपि न कुप्यति उपशमतः सर्वकालमपि ॥ (२) नरविबुधेश्वरसौख्यं दुःखमेव भावतश्च मन्यमानः । संवेगतो न मोक्षं मुक्त्वा किञ्चित् प्रेक्षते, ( प्रार्थयति ) ॥ For Personal & Private Use Only K+K+XOK++1.08.0108130.1 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy