SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ योग शानम् ॥६३॥ सरागोऽपि हि देवश्चेद् गुरुरब्रह्मचार्यपि। कृपाहीनोऽपि धर्मः स्यात्कष्टं नष्ट हहा जगत्॥१४॥ द्वितीयः ___ रागग्रहणमुपलक्षणं द्वेषमोहयोः । अब्रह्मचारित्वमुपलक्षणं प्राणातिपातादीनाम् । कृपाहीनत्वमुपलक्षणं मूलो- प्रकाशः। त्तरगुणहीनत्वस्य । चेच्छब्दः प्रत्येकमभिसम्बध्यते । आक्षेपं प्रकटयति-कष्टमिति खेदे नष्टं जगत् देवगुरुधर्मशून्यत्वेन विनष्टं दुर्गतिगमनात् । हहा निपातः खेदातिशयसूचकः । यदाह| रागी देवो दोसी देवो मामि सुन्नपि देवो,मजे धम्मो मंसे धम्मो जीवहिंसाइ धम्मो । रत्ता मत्ता कन्तासत्ता ॥ जे गुरू तेवि पुज्जा, हाहा क; नहो लोगो अट्टमट्ट कुणंतो॥१॥१४॥ तदेवमदेवागुर्वधर्मपरिहारेण देवगुरुधर्मप्रतिपत्तिलक्षणं सम्यक्त्वं सुव्यवस्थितम् । तच शुभात्मपरिणामरूपमस्मदादीनामप्रत्यक्षं केवलं लिङ्गैर्लक्ष्यते, तान्येवाह - शमसंवेगनिर्वेदानुकम्पास्तिक्यलक्षणैः। लक्षणैः पञ्चभिः सम्यक् सम्यक्त्वमुपलक्ष्यते॥१५॥ ___ पञ्चभिर्लक्षणैर्लिङ्गैः परस्थं परोक्षमपि सम्यक्त्वं सम्यगुपलक्ष्यते । लिङ्गानि तु शमसंवेगनिर्वेदानुकम्पास्तिक्यस्वरूपाणि । शमः प्रशमः क्रूराणामनन्तानुबन्धिनां कषायाणामनुदयः। स च प्रकृत्या वा कषायपरिणतेः कटुफलावलोकनाद्वा भवति । यदाह (१) रागी देवो द्वेषी देवो सखे शून्योऽपि देवः, मद्ये धर्मो मांसे धर्मः जीवहिंसायां धर्मः । रक्ता मत्ताः कान्तासक्ता ये गुरवः तेऽपि पूज्याः , हाहा कष्टं नष्टो लोको अट्टमढें कुर्वन् । ॥६३॥ in Education internal For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy