SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ करणाभिघाते शब्दान्तराणामपि तद्देश्यानामभिव्यक्तिप्रसङ्गः । न च प्रतिनियतव्यञ्जकव्यङ्गथता शब्दानां भवति व्यङ्गन्यान्तरेषु तददर्शनात् । तथा च गृहे दधिघटीं द्रष्टुमाहितो गृहमेधिना । अपूपानपि तद्देश्यान् प्रकाशयति दीपकः॥१॥ तदेवं वचनस्यापौरुषेयता न सम्भवति । अथाप्यप्रामाणिकहेवाकबलादाकाशादिवच्छब्दस्यापौरुषेयता यदि भवेत् तथापि प्रामाण्यं न सम्भवति । हि यसादाप्तवक्तृकत्वेन वाचां प्रामाण्यं नान्यथा । यता शब्दे गुणोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः कचित्तावद्दोषवद्वक्तृकत्वतः ॥१॥ तद्दोषैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन गुणा न स्युनिराश्रयाः॥२॥ किञ्च गुणाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेदे कर्तुरभावाच्च गुणाशङ्खव नास्ति नः ॥ ३॥ १२ ॥ एवं तावदपौरुषेयवचनाभिहितस्यासम्भवादिना अभावमभिधायासर्वज्ञपुरुषवक्तृकस्य धर्मस्याप्रामाणिकत्वमाह| मिथ्यादृष्टिभिराम्नातो हिंसाद्यैः कलुषीकृतः। स धर्म इति वित्तोऽपि भवभ्रमणकारणम् ॥१३॥ मिथ्यादृष्टिभिर्हरिहरहिरण्यगर्भकपिलबुद्धादिभिराम्नात आत्मोपज्ञतया प्रतिपादितः । यत्तदोर्नित्याभिसम्बन्धाद्यो मिथ्यादृष्टिभिराम्नातः स धर्मत्वेन मुग्धबुद्धीनां प्रसिद्धोऽपि भवभ्रमणकारणमधर्म एवेत्यर्थः । कुत इत्याहहिंसाद्यैः कलुषीकृत इति । मिथ्यादृष्टिप्रणीता ह्यागमा हिंसादिदोषदक्षिताः॥१३॥ इदानीमदेवागुर्वधर्माणां साक्षेपं प्रतिक्षेपमाह in Education Internation.. For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy