SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ द्वितीय: प्रकाशः। योग लक्षणं धर्मस्य । धत्ते वा नरसुरमोक्षस्थानेषु जन्तूनिति निरुक्ताद्धर्मः । यदाहशास्त्रम् । दुर्गतिप्रसृतान् जन्तून् यसाद्धारयते ततः । धत्ते चैतान् शुभे स्थाने तस्माद्धर्म इति स्मृतः॥१॥ स तु वक्ष्यमाणैः संयमादिभिर्भेदैर्दशधा । सर्वज्ञोकत्वाद्विमुक्तये भवति । देवतान्तरप्रणीतस्त्वसर्वज्ञवक्तक॥६२॥ त्वान प्रमाणम् ॥ ११॥ ननु सर्वज्ञोक्तत्वाभावेऽप्यपौरुषेयवचनोपज्ञस्य धर्मस्य प्रामाणिकत्वमस्तु । यदाह-चोदना हि भूतं भवन्तं भविष्यन्तं सूक्ष्मं स्थुलं व्यवहितं विप्रकृष्टमेवंजातीयकमर्थमवगमयितुं शक्नोति नान्यत्किञ्चनेन्द्रियमिति । चोदना च अपौरुषेयत्वेन पुरुषगतानां दोषाणामप्रवेशात् प्रमाणमेव । यदाह-शब्दे दोषोद्भवस्तावद्वक्त्रधीन इति स्थितम् । तदभावः कचित्तावद्गुणवद्वक्तृकत्वतः ॥१॥ तद्गुणैरपकृष्टानां शब्दे संक्रान्त्यसम्भवात् । यद्वा वक्तुरभावेन न स्युर्दोषा निराश्रयाः ॥२॥ किश्च-दोषाः सन्ति न सन्तीति पौरुषेयेषु युज्यते । वेदे कर्तुंरभावाच्च | दोषाशकैच नास्ति नः ॥३॥ इत्याहअपौरुषेयं वचनमसम्भवि भवेद्यदि । न प्रमाणं भवेद्वाचां ह्याप्ताधीना प्रमाणता ॥ १२ ॥ पुरुषेण कृतं पौरुषेयं तत्प्रतिषेधादपौरुषेयम् । उच्यते स्थानकरणाभिघातपूर्वकं पुरुषेण प्रतिपाद्यते इति वचनम् । तदिदं परस्परविरुद्धम् अपौरुषेयं वचनं चेति । तदेवाह-असम्भवि न ह्यस्ति सम्भवो वचनस्य त्रसरेणोरिवाकाशे । न चाम्रर्चस्य सतोऽप्यदर्शनमिति वक्तुं युक्तं प्रमाणाभावात् । अभिव्यञ्जकवशाच्छदश्रवणमेव प्रमाणमिति चेत् न । तस्य जन्यत्वेऽप्युपपत्तेः । अभिव्यङ्गयत्वे प्रत्युत दोषसम्भवः । एकशब्दाभिव्यक्त्यर्थं स्थान in Education Internet For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy