SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ Jain Education Intern सर्वाभिलाषिणः सर्वभोजिनः सपरिग्रहाः । श्रब्रह्मचारिणो मिथ्योपदेशा गुरवो न तु ॥९॥ सर्वमुपदेश्य सम्बन्धिस्त्रीधनधान्यहिरण्यक्षेत्रवास्तुचतुष्पदाद्यभिलषन्तीत्येवंशीलाः सर्वाभिलाषिणः । तथा सर्व मद्यमधुमांसानन्तकायादि भुञ्जत इत्येवंशीलाः सर्वभोजिनः । सह परिग्रहेण पुत्रकलत्रादिना वर्त्तन्ते सपरिग्रहाः । अत एवाब्रह्मचारिणः, अब्रह्मणो महादोषतां कथयितुमब्रह्मचारिण इति पृथगुपन्यासः । अगुरुत्वे असाधारणं कारणमाह-मिथ्योपदेशा इति, मिथ्या वितथ श्राप्तोपज्ञोपदेशरहितत्वादुपदेशो धर्मदेशनं येषां ते तथा । न तु नैव एवंविधा गुरव इति ॥ ६ ॥ ननु धर्मोपदेशदायित्वं चेदस्ति तदास्तु गुरुत्वं किं निष्परिग्रहित्वादिगुणगवेषणेन ? इत्याहपरिग्रहारम्भमग्नास्तारयेयुः कथं परान् ? । स्वयं दरिद्रो न परमीश्वरीकर्त्तुमीश्वरः ॥१०॥ परिग्रहस्त्र्यादिरारम्भो जन्तुहिंसा निबन्धनं सर्वाभिलाषित्वसर्वभोजित्वादिः, ताभ्यां मग्ना भवान्धौ त्रुडिताः कथं परानुपदेश्यान् भवाम्भोधेस्तारयेयुस्तारण समर्थाः स्युः १ । साधकं दृष्टान्तमाह-स्वयमित्यादि स्पष्टम् ।। १० ।। धर्म्मलक्षणमाह दुर्गतिप्रपतत्प्राणिधारणाद्धर्म उच्यते । संयमादिर्दशविधः सर्व्वज्ञोक्तो विमुक्तये ॥ ११ ॥ दुर्गतौ नरकतिर्यग्लक्षणायां प्रपतन्तो ये प्राणिनस्तेषां धारणाद्धेतोर्द्धर्म उच्यते । धर्मशब्दार्थोऽयं । इदमेव च For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy