SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥६१॥ वीतरागस्तोत्रेऽप्युक्तममाभिः। द्वितीयः कृतार्था जठरोपस्थदुःस्थितैरपि दैवतैः । भवादृशान्निनुवते हहा देवास्तिकाः परे ॥१८॥७॥ प्रकाशः। गुरुलक्षणमाहमहाव्रतधरा धीरा भैक्षमात्रोपजीविनः । सामायिकस्था धर्मोपदेशका गुरवो मताः ॥ ८॥ महाव्रतानि अहिंसादीनि तानि धरन्तीति महाव्रतधराः। महाव्रतधारित्व एवायं हेतुः धीरा इति, धैर्य है। ह्यापत्स्वप्यवैक्लव्यं तद्योगाद्धि अखण्डितमहाव्रतधरा भवन्ति । मूलगुणधारित्वमुक्त्वा उत्तरगुणधारित्वमाहमैक्षमात्रोपजीविन इति, भिक्षाणां समूहो भै अन्नपानधर्मोपकरणरूपं तन्मात्रमेवोपजीवन्ति लोकान्न पुनर्द्धनधान्यहिरण्यग्रामनगरादि । मूलगुणोत्तरगुणधारणकारणभूतगुणवत्त्वमाह-सामायिकस्था इति, समो रागद्वेषविकल आत्मा समस्यायो विशिष्टज्ञानादिगुणलाभः समायः स एव सामायिक “विनयादित्वादिकण्" तत्र तिष्ठन्तीति सामायिकस्थाः । सामायिकस्थो हि मूलगुणोत्तरगुणभेदमिन्नं चारित्रं पालयितुं क्षमः। एतद्यतिमात्र- | साधारणलक्षणम् । गुरोस्तु असाधारणलक्षणं-धर्मोपदेशका इति, धर्म संवरनिर्जरारूपं यतिश्रावकसम्बन्धिभेदभिनं वा उपदिशन्तीति धर्मोपदेशकाः। यदुक्तमसामिभिधानचिन्तामणी-“गुरुर्धर्मोपदेशक" इति, गुणन्ति सद्भूतं शास्त्रार्थमिति गुरवः ॥८॥ अगुरुलक्षणमाह ॥६१॥ in Education Internet For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy