SearchBrowseAboutContactDonate
Page Preview
Page 683
Loading...
Download File
Download File
Page Text
________________ ननु लोकभावनाया भावनात्वं कथं भवेत ? । उच्यते निर्ममत्वं स्यादितोऽपि हि निशम्यताम् ॥१॥ * सुखहेतौ क्वचिद्भावे मनो रज्यन्मुहर्महः । लोकभावनयाऽत्यर्थ विप्रकीर्ण विधीयते ॥ २॥ भूद्वीपसागरादीनि धर्मध्यानस्य गोचरः । इत्युक्तं ध्यानशतके नर्ते तल्लोकभावनाम् ॥३।। जिनोक्ते लोकरूपे च संवादिनि विनिश्चिते । अतीन्द्रिये मोक्षमार्गेऽथाधत्ते प्रत्ययं जनः ॥ ४॥ इति लोकभावना ॥ ११ ॥ १०६॥ अथ बोधिदुर्लभत्वभावनां श्लोकत्रयेणाहअकामनिर्जरारूपात् पुण्याजन्तोः प्रजायते।स्थावरत्वात्रसत्वं वा तिर्यक्त्वंवा कथञ्चन॥१०७॥ __ अकामनिर्जरा यथाप्रवृत्तिकरणेन गिरिसरिदुपलघोलनाकल्पेनाकामस्य निरभिलाषस्य या निर्जरा कर्मप्रदेशविचटनरूपा सैव रूपं यस्य तस्मात, पुण्यादिति पुण्यं न पुण्यपकृतिरूपं, किन्तु कर्मलाघवरूपं तस्मात् , जन्तोः शरीरिणः प्रजायते भवति । किं तदित्याह-स्थावरत्वादेकेन्द्रियजातिसहचारिस्थावरनामकर्मोदयकृतात् पर्यायविशेषात् , त्रसत्वं वा त्रसनामकर्मोदय द्वीन्द्रियत्वादिसहचारि, तिर्यक्त्वं वा पश्चेन्द्रियतिर्यग्रूपता, कथश्चन विशिष्टात्कर्मलाघवात् ।। १०७ ॥ तथामानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम्। आयुश्च प्राप्यते तत्र कथञ्चित्कर्मलाघवात् ॥१०८॥ मानुषस्य भावो मानुष्यं, कुतोऽपि कर्मलाघवात् युगच्छिद्रे शमिलाप्रवेशन्यायेन । ततोऽपि शकयवनाद्यनार्य Jain Education internel For Personal & Private Use Only Twww.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy